ढगवार-दुग्ध-प्रसंस्करणसंयंत्रस्य स्थापनायै परामर्शसेवां प्रदास्यति राष्ट्रीयदुग्धविकासबोर्ड – मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् राज्यसर्वकारेण काङ्गड़ामण्डलस्य ढगवारे अत्याधुनिकस्वचालितदुग्धप्रसंस्करणसंयंत्रस्य स्थापनायै परामर्शसेवाप्रदानाय राष्ट्रियदुग्धविकासमण्डलेन सह ज्ञापनपत्रे हस्ताक्षरं कृतम् । सः अवदत् यत् अस्य पूर्णतया स्वचालितस्य संयंत्रस्य क्षमता प्रारम्भे प्रतिदिनं १.५० लक्षसेटकं भविष्यति, यत् प्रतिदिनं त्रिलक्षसेटकं यावत् वर्धयितुं शक्यते। अस्याः परियोजनायाः अन्तर्गतं प्रथमचरणस्य निर्माणकार्यं २२५ कोटिरूप्यकाणां निवेशेन क्रियते। दधि, तक्रम्, घृतं, नवनीतं, पनीरं, सुस्वादयुक्तं दुग्धं,पायसं, मोज़ेरेला पनीरं इत्यादीनां दुग्धजन्यपदार्थानाम् उत्पादनं अस्य संयंत्रस्य उद्देश्यं भविष्यति।
मुख्यमन्त्री उक्तवान् यत् अस्याः परियोजनायाः आरम्भेण दुग्धनिर्मातृणां जीवने समृद्धिः भविष्यति, राज्यस्य समग्रप्रगतेः अपि योगदानं भविष्यति। सः अवदत् यत् चम्बा, हमीरपुरम्, काङ्गड़ा, ऊना जनपदानां कृषकाणां प्रत्यक्षतया दुग्धक्रयणं कृत्वा ग्रामीण अर्थव्यवस्थां सुदृढां कर्तुं एतद् संयंत्रं महत्त्वपूर्णां भूमिकां निर्वहति। दुग्धक्रयणे पारदर्शितायाः विषये बलं दत्त्वा सः अवदत् यत् कृषकाः तेषां परिश्रमस्य न्याय्यमूल्यानि प्राप्नुयुः। दुग्धक्रयणजालं सुदृढं कर्तुं ४३ कोटिरूप्यकाणां अतिरिक्तनिवेशस्य प्रावधानं कृतम् इति सः अवदत्। संयंत्रस्य संचालनार्थं प्रतिदिनं २.७४ लक्षसेटकं दुग्धक्रयणस्य लक्ष्यं निर्धारितम् अस्ति ।
मुख्यमन्त्री उक्तवान् यत् एष: उपक्रमः कृषकाणां कल्याणं प्रति राज्यसर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति, यस्मिन् द्वितीयचरणस्य अन्तर्गतं ढगवारदुग्धप्रक्रियासंस्थाने दुग्धचूर्णं, आइसक्रीमम्, विभिन्नप्रकारस्य पनीरस्य च उत्पादनं भविष्यति। सः अवदत् यत् वर्तमानः राज्यसर्वकारः राज्यस्य कृषकाणां कल्याणाय प्रतिबद्धः अस्ति तथा च अद्यतनकाले दुग्धक्रयणस्य दरं प्रत्यक्षतया प्रतिलीटरं ६ रुप्यकेन ३२ रुप्यकात् ३८ रुप्यकाणि यावत् वर्धितम् अस्ति। सः अवदत् यत् राज्यसर्वकारः कृषकाणां आयवर्धनार्थं दृढ़प्रयत्नाः करोति, भविष्ये नूतनाः योजनाः आरभ्यन्ते इति। सः अवदत् यत् राज्यस्य ९५ प्रतिशतं जनसङ्ख्या ग्राम्यक्षेत्रेषु निवसति, अतः हिमाचलप्रदेशं स्वावलम्बनं कर्तुं ग्रामीण अर्थव्यवस्थां सुदृढां कर्तुं आवश्यकम्। एतत् उद्देश्यं विना आत्मनिर्भरस्य हिमाचलस्य लक्ष्यं प्राप्तुं न शक्यते ।