बद्दी-अग्निघटना – इत्रनिर्माणकम्पन्यां अग्निप्रकोपस्य अन्वेषणार्थं न्यायिकदलेन कृतम् अन्वेषणम्
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
बद्दीक्षेत्रस्य झाड़माजरी इत्यत्र इत्रनिर्माणकम्पन्यां अग्निप्रकोपस्य अन्वेषणार्थं न्यायिकदलेन बहिर्स्थानस्य अन्वेषणम् कृतम् परन्तु एनडीआरएफ-दलेन सम्प्रति भवनं असुरक्षितं घोषितम् अस्ति । यस्मात् कारणात् दलं अन्तः गन्तुं न शक्तवान्।
दलेन बहिः अन्वेषणं आरब्धम् अस्ति तथा च न्यायनिदेशकः डॉ. मीनाक्षी कथयति यत् ते केवलं बहिः एव अन्वेषणं कर्तुं समर्थाः अभवन्। अग्निः कुतः आरब्धः इति निश्चयः क्रियते। परन्तु यदा दलं अन्तः गमिष्यति तदा एव सम्पूर्णां सूचनां ज्ञास्यति। सा अवदत् यत् प्रतिरूपाणां संग्रहणं कृत्वा एकतः सार्धसप्ताहपर्यन्तं तस्य प्रतिवेदनं निर्मितं भविष्यति।
अपरपक्षे एनडीआरएफ-दलेन अपि अन्वेषणकार्यक्रमः आरब्धः अस्ति । द्वितीयदिने कोऽपि शवः न प्राप्तः। दलं अन्तः गन्तुं प्रयतते। उल्लेखनीयं यत् शुक्रवासरे झारमाजरीस्थाने इत्रनिर्माणकम्पन्यां अग्निः प्रज्वलितः, यस्मिन् अद्यावधि पञ्च जनाः मृताः, २९ जनाः घातिताः, चत्वारः जनाः अद्यापि अदृश्याः, येषां शवस्य अन्वेषणं क्रियते।