Dharmshala News : ज़ोरावरक्रीड़ाङ्गणे अनुद्योगी-युनां गर्जना
हिमसंस्कृतवार्ता: – धर्मशाला।
हिमाचलप्रदेश-राज्यचयन-आयोगस्य माध्यमेन वर्ष 2022 तः परं नियुक्त्य: न अभवन् इत्यस्य विरुद्धं गुरुवासरे ज़ोरावरक्रीड़ाङ्गणे अनुद्योगी-युना: प्रदर्शनं कृतवन्तः। राज्यचयन-आयोगद्वारा नियमितरूपेण नियुक्तिः आरभ्यत इति युनः आग्रहं कृतवन्तः। युनः स्वप्रदर्शनकाले विधानसभां प्रति गन्तुं प्रयत्नं कृतवन्तः, परन्तु अवरोधकै: पुलिसबलेन रोधिताः। बेरोजगारप्रशिक्षितसङ्घस्य हिमाचलबेरोजगारयुवसङ्घस्य च अधिकारिणः घनश्याम: श्रेय अवस्थी च उक्तवन्तौ यत् प्रत्येकं समये चयन-आयोगस्य माध्यमेन नियुक्ति-प्रक्रिया आरभ्यत इति आश्वासनं प्राप्यते। कोरोनाकालस्य अनन्तरं कोऽपि नियुक्ति: न अभवत्। विगतवर्षद्वयं यावत् आयोगः विघटितः एव आसीत् । सर्वोच्चन्यायालयस्य आदेशाणाम् अनन्तरम् अपि बाह्याधारेण नियुक्त्य: क्रियन्ते।
किं सर्वकारः स्वस्य प्रणालीं न विश्वसिति यत् ओएमआर-पत्रेषु परीक्षां न करोति? तौ अवदताम् यत् निर्वाचनकाले उपमुख्यमन्त्री उक्तवान् यत् काङ्ग्रेससर्वकारः नियमितरूपेण नियुक्ति करिष्यति। बाह्याधारेण तथा अतिथिसंकायाधारेण चयनविषये कथनं युवभि: विश्वासघातः एव। अनुद्योगीयुनां आग्रहेषु सर्वकारः ध्यानं न ददाति इति तौ अवदताम्। मातापितरः सुदूरस्थानात् युनां शिक्षणं महता कष्टेन कुर्वन्ति। परन्तु कार्याणि न प्राप्य युनः निराशाः अनुभवन्ति। अतिथिशिक्षकस्य, बाह्याधारेण च नियुक्त्य: पूर्णतया स्थगयित्वा युनां कृते ठोसनीतिं निर्मातुं सर्वकाराद् आग्रहं उत्थापितवन्तौ। बेरोजगारयुवसङ्घः एतेषु आग्रहेषु २५ दिवसेषु समुचितपदं ग्रहीतव्यम् इति आग्रहं उत्थापितवान्।