प्रधानमन्त्री नरेन्द्र-मोदी-आगामिनि वर्षे महाकुम्भस्य चर्चा सम्पूर्ण विश्वे भविष्यति
प्रधानमन्त्री नरेन्द्र-मोदी अवोचत् यत् आगामिनि वर्षे महाकुम्भस्य आयोजनम् एकतायाः तादृशः महायज्ञः भविष्यति यस्य चर्चा सम्पूर्ण विश्वे भविष्यति। उत्तरप्रदेशस्य सङ्गम- नगर्याः प्रयागराजे एकां जनसभां सम्बोधयता प्रधानमन्त्रिणा महाकुम्भस्य औपचारिकोद्घाटनमपि कृतम्। अवधेयं यत् महाकुम्भः आगामिनः जनवरी-मासस्य त्रयोदश- दिनाङ्कात् आरभ्य फरवरी-मासस्य षड्विंशतिः दिनाङ्क यावत् भविष्यति। अत्रावसरे प्रधानमन्त्री सार्धपञ्च-सहस्र-कोटि-रूप्यकाणां परियोजनानाम् उद्घाटनम् अकरोत्। आगामिने वर्षे महाकुम्भस्य आयोजनं देशस्य आध्यात्मिक-सांस्कृतिक-परिचयं नूतन-शिखरं प्रतिनेष्यति। एकभारत-श्रेष्ठभारत इत्यस्य चर्चा विधाय श्रीमोदिना स्वच्छतायाः प्रतिबद्धता अपि प्रकटिता। प्रधानमन्त्रिणा कुम्भ-सहायक एआई चेट बॉट इत्येतत् अपि लोकार्पितम्। येन तीर्थयात्रिणः कुम्भ-विषयकं विवरणम् प्राप्स्यन्ते। श्रीमोदी अवदत् यत् ऐषमः कुम्भ-मेलापकम् प्रौद्योगिकी-एआई इत्येतयोः सङ्गमाय ज्ञास्यते। प्रधानमन्त्रिणा उक्तं यत् अस्य आयोजनस्य भव्य-दिव्य-सफलतायै अहं भवद्भयः सर्वेभ्यः शुभकामनाः यच्छामि।
प्रधानमन्त्री नरेन्द्र-मोदी-आगामिनि वर्षे महाकुम्भस्य चर्चा सम्पूर्ण विश्वे भविष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment