HP NEWS : हिमाचलाय ६३.३४ कोटिरुप्यकाणां पर्यटनपरियोजना अनुमोदिता – गजेन्द्रसिंह: शेखावत:
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
केन्द्रीयपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः शुक्रवासरे राज्यसभायां सांसद डॉ. सिकंदरकुमारेन पृष्टस्य प्रश्नस्य उत्तरे उक्तवान् यत् पर्यटनमन्त्रालयेन देशे सर्वत्र प्रायः ५ सहस्रकोटिरूप्यकाणां ७६ परियोजनानां अनुमोदनं कृतम्, येषु हिमाचलप्रदेशाय अपि ६३ कोटि ३४ लक्षरूप्यकाणां एका पर्यटनयोजना अनुमोदिता अस्ति।
स्वदेशदर्शनयोजना-२ मध्ये हिमाचलप्रदेशस्य पोङ्गजलबन्धः पर्यटनस्थलरूपेण चिह्नितः अस्ति । लाहौल-स्पीति-मण्डलस्य काजा संस्कृति-धरोहर-गन्तव्य-वर्गे, किन्नौर-मण्डलस्य छितकुलस्य च जीवन्त-ग्राम-कार्यक्रम-गन्तव्य-वर्गे चिह्निता अस्ति सिकन्दरकुमारस्य अन्यस्य प्रश्नस्य उत्तरे केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनराज्यमन्त्री कीर्तिवर्धनसिंहः अवदत् यत् वन्यजीवसंरक्षणार्थं हिमाचलप्रदेशाय ७ कोटि ६६ लक्षरूप्यकाणां राशिः स्वीकृता अस्ति। अस्यां योजनायां अवैधमृगयायाः, वन-अग्निरक्षणस्य च निरीक्षकाणां परिनियोजनं भवति । हिमाचलप्रदेशात् गम्भीररूपेण विलुप्तप्रजातीनां विलुप्ततायाः विषये कोऽपि सूचना न प्राप्ता इति अपि सः अवदत्।