असमराज्यस्य विश्वनाथजनपदे नूतना कार्यकारी समितिः निर्माणम्
वार्ताहर: – जगदीशडाभी (असमराज्यात्)
गत सप्ताहस्य 01-12-2014 तमे दिनाङ्के विश्वनाथजनपदस्य कार्यकारिणी एका सभा जाता तत्र सर्वप्रथमं प्रान्तीयसंस्कृत-सम्मेलनम्, प्रबोधनवर्गम्, धनसंग्रहम्, तथा पुर्वतनसमितेः सक्रियकर्तुं नवीनसमिति निर्माणं च जातम् । पुनश्च काचित् नगरसमितिः तथा ग्रामिणसमितिः अपि भविष्यतीति निश्चिता । ताः समित्यः इत्थं प्रकारकाः – विश्वनाथनगर समितिः, गहपुरनगर समितिः , समरदलनीग्राम समितिः, गमिरिग्राम समितिः इति ।तत्र अध्यक्षपदं निर्वहति विश्वनाथ जनपद पूर्वाध्यक्षः श्रीमान् लोकनाथ शास्त्री महोदयः, तत्र मुख्यातिथि असान् ईशानक्षेत्रस्य प्रभारीमहोदय कन्नन् महोदयः अन्ये अतिथयः ईशानक्षेत्रस्य सहसङ्गठनमन्त्री श्रीमान् राजेन आचार्य, श्रीमान् प्रभूनाथ सिंहः, श्रीमान् नारद उपाध्याय, श्रीमान् तारा महन्तः, श्रीमान् कमला उपाध्याय इत्यादयः आसन्। प्रान्तसम्मेलनविषये विषदी चर्चा जाता अथ च प्रबोधनवर्गस्य विषये धनसंग्रहविषये, च राजेन महोदयः वर्णयति। नवीन समितिः विषये कन्नन् महोदयः परमर्शति यत् लघुसमितिः ग्रामस्तरे नगरस्तरे च भवेत् तेन कार्यकरणे सौविद्यं भवति। ततः नवीन समितिः चयन प्रक्रिया प्रारम्भः अभवत्। तत्र अध्यक्षरूपेण भूतपूर्व ए.सी.एस हितेश दास महोदयः, उपाध्यक्षरूपेण विनोद दवाडीमहोदयः, मन्त्री/सचिवः नारायण अधिकारी तथा च अन्ये १८ जनान् योजयित्वा नूतना समितिः जाता । अन्तिमे शान्तिमन्त्रपाठात्परं चायपानादिकं कृत्वा सभा भङ्गः जातः। नारायण अधिकारी मन्त्री विश्वनाथजनपदम्