केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य (FDP) आयोजनम् अभवत्
वार्ताहर: – जगदीशडाभी (सोमनाथ-गुजरातम्)
केन्द्रियसंस्कृतविश्वविद्यालयस्य आर्थिकानुदानेन गुजरातशैक्षणिकसंशोधनपरिषद् (GCERT) गान्धिनगरस्य सहकारेण श्रीसोमनाथसंस्कृतविश्वविद्यालयेन सङ्कायविकासकार्यक्रमस्य(FDP) ०२/१२/२०२४ तः ०६/१२/२०२४ दिनाङ्कं यावत् आयोजनम् कृतम् आसीत्। श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य माननीयानां कुलपतिवर्याणां प्रो. सुकान्तकुमारसेनापतिमहोदयानां प्रेरणया, माननीयानां कुलसचिवानां प्रो. ललितकुमारपटेलमहोदयानां निर्देशेन, केन्द्रियसंस्कृतविश्वविद्यालयस्य माननीयां कुलपतिवर्याणां प्रो. श्रीनिवासवरखेडीमहोदयानां मार्गदर्शनेन तथा च डॉ. डी.एम. मोकरिया, डॉ. अमृतलाल: भोगायता एवं डॉ. जीगरभाई भट्ट – महोदयानां संयोजकत्वेन अयं कार्यक्रमः सम्पन्नः। अस्मिन् कार्यक्रमे विविधासु संस्थासु ४७ प्रतिभागिनः भागं गृहितवन्तः। अस्मिन् कार्यक्रमे आदरणीय: श्रीमन् जनार्दन: हेगडे महोदय:, माननीय: प्रो. शिवराम: भट्ट महोदय:, माननीय: डॉ. नरेन्द्रकुमार: पण्ड्या महोदय:, कविः माननीय: डॉ. अमृतलाल:भोगायता महोदय: इत्यादयः विद्वांसः मार्गदर्शकव्याख्यानानि दत्तवन्तः ।