Kailash Mansarovar Yatra : पुनः आरप्स्यते कैलाश-मानसरोवरयात्रा
हिमसंस्कृतवार्ता:- नवदेहली।
भारत-चीनदेशयोः मध्ये वास्तविकनियन्त्रणरेखायाः सामान्यतायाः पुनर्स्थापनानन्तरम् आगामिवर्षात् द्वयोः देशयोः प्रत्यक्षविमानयानसेवा: कैलाशमानसरोवरयात्रा च आरप्स्यते इति सिद्धान्ततः सहमति कृता। विदेशमन्त्री एस.जयशंकर: चीनस्य साम्यवादीपक्षस्य राजनैतिकब्यूरो सदस्यस्य विदेशमन्त्री वाङ्ग यी च अनयो: मध्ये जी-२० शिखरसम्मेलनस्य अवसरे ब्राजीलदेशस्य रियो डी जनेरियोनगरे द्वयोः देशयोः सम्बन्धान् सामान्यीकर्तुं विविधविषयेषु सार्थकचर्चा अभवत्।
विदेशमन्त्रालयस्य अनुसारम्- “अस्माकं सीमाक्षेत्रेभ्यः सैनिकानां निवृत्त्या शान्तिं स्थिरतां च निर्वाहयितुं योगदानं जातम् इति उभौ मन्त्रिणौ अङ्गीकृतवन्तौ भारत- चीन- सम्बन्धेषु अग्रिमपदेषु चर्चा केन्द्रीकृता आसीत्। “विशेषप्रतिनिधिनां विदेशसचिव- उपमन्त्रीतन्त्रस्य च समागमः शीघ्रमेव भविष्यति इति सहमतिः अभवत्।” द्वयोः पक्षयोः मध्ये एतेषु पदेषु चर्चा कृता तेषु कैलाशमानसरोवरयात्रा- तीर्थयात्रायाः पुनः आरम्भः, सीमापारनदीनां विवरणे सहभागिता, भारत-चीनयोः प्रत्यक्षविमानयानं, मीडियाविनिमयः च अन्तर्भवन्ति स्म विदेशमन्त्रालयस्य अनुसारम्- “वैश्विकस्थितौ अन्ताराष्ट्रीयविषयेषु च विदेशमन्त्री उक्तवान् यत् भारतस्य चीनस्य च मध्ये भेदः समानता च अस्ति। वयं ब्रिक्स तथा एससीओ संरचनायां रचनात्मकरूपेण कार्यं कृतवन्तः। अस्माकं सहकार्यं जी-२०-सङ्घस्य अपि स्पष्टम् अभवत्” इति।
विदेशमन्त्री अवदत् यत्, “बहुध्रुवीय- एशिया- सहितस्य बहुध्रुवीय-विश्वस्य कृते वयं दृढतया प्रतिबद्धाः स्मः। यावत् भारतस्य विषयः अस्ति, तस्य विदेशनीतिः सिद्धान्तयुक्ता, सुसंगता च, स्वतन्त्रविचारेण, कार्येण च चिह्निता। वयं वर्चस्वस्थापनस्य एकपक्षीयपद्धतेः विरुद्धाः स्मः। भारतं स्वसम्बन्धम् अन्यदेशानां दृष्ट्या न पश्यति” इति। चीनदेशस्य विदेशमन्त्री डॉ. जयशङ्करेण सह सहमतः यत् विश्वराजनीत्यां भारत- चीनसम्बन्धस्य विशेषं महत्त्वं वर्तते। “अस्माकं नेतारः अग्रे गमनमार्गे सहमताः आसन्” इति सः अवदत्। “सम्बन्धानां स्थिरीकरणे, मतभेदस्य प्रबन्धने, अग्रिमपदं ग्रहीतुं च ध्यानं भवेत् इति महत्त्वपूर्णम् इति उभौ मन्त्रिणौ अनुभूतवन्तौ।”