ED : अवैधखननप्रकरणे ईडी इत्यस्य महती कार्यवाही, द्वौ गृहीतौ, व्यापारः ब्यासत: यमुनानदीपर्यन्तं प्रसृतः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
प्रवर्तननिदेशालयस्य मुख्यालयेन हिमाचलप्रदेशस्य ब्यासनद्याः, यूपीदेशस्य सहारनपुरे यमुनानद्याः च अवैधखननप्रकरणे ज्ञानचन्दः, संजयधीमानः च गृहीतौ। उभौ मंगलवासरे विशेषन्यायालये गाजियाबादस्य समक्षं प्रस्तुतौ। प्रवर्तननिदेशालयेन अस्मिन् प्रकरणे औपचारिकोपालम्भा: गुप्तचरनिवेशाः च प्राप्ताः आसन्, यत्र आरोपः आसीत् यत् ज्ञानचन्दसहितैः अनेकैः खननतस्करै: ब्यासनद्याः तटे अवैध- बालुका- खनिज- खनन- कार्यक्रमाः क्रियन्ते, एतेभ्यः अवैधरूपेण शतशः रुप्यकाणां हानिः भवति इति खननकार्यक्रमेषु कोटिरूप्यकाणां अपराधस्य आयं (पीओसी) अर्जितम् अस्ति।
प्रवर्तननिदेशालयेन अवैधखननसम्बद्धानां हिमाचलस्य काङ्गड़ा-ऊना-मण्डलानां विभिन्नैः पुलिस-स्थानकैः प्रवेशितानां षट् प्राथमिकीनां आधारेण अन्वेषणस्य आरम्भः कृतः। प्राथमिकी- अनुसारम् आरोपः कृतः यत् सर्वकारीयभूमिषु अवैधखननक्रियाकलापाः भवन्ति, हिमाचलप्रदेशस्य ऊना- काङ्गड़ा- जनपदयो: टिप्पर, पोक्लेन, जेसीबी, ट्रैक्टर् इति यानानि च अवैधखनने सक्रियरूपेण संलग्नाः सन्ति। एतेषां वाहनानां प्रयोगेण अवैधरूपेण खनिजानां निष्कर्षणं भवति स्म तथा च फलतः अतिभारितवाहनेषु एतानि खनिजानि अवैधरूपेण पाषाणचूर्णकर्तृभ्यः परिवहनं कुर्वन्ति स्म।
ज्ञानचन्दादिविरुद्धं आईपीसी १८६०, सार्वजनिकसम्पत्तिविधेयकं १९८४, खानखनिज- (विनियमनविकास) अधिनियम: १९५७ (संशोधितम्) इति धाराभिः सह बेहटपुलिसस्थानसहारनपुरद्वारा १ नवम्बरदिनाङ्के अन्या प्राथमिकी अपि पंजीकृता अस्ति। अन्वेषणकाले हिमाचल-सहारनपुरयोः ज्ञानचन्दः तस्य सहकारिणः च सहितानाम् अनेकानाम् खननतस्कराणां परिसरे १२ अन्वेषणानि कृतानि, अनेकेषां जनानां वक्तव्यं च अभिलेखितम्। गृहीतसामग्रीणां परीक्षणेन ज्ञातं यत् ज्ञानचन्दः तस्य सहकारिणः च ब्यास् नदीतः यमुनानद्याः यावत् अवैधखननकार्यक्रमेषु संलग्नाः सन्ति। अवैधखननतः प्राप्तस्य पीओसी इत्यस्य उपयोगेन अचलसम्पत्तयः, खननयन्त्राणि च यथा ट्रक, टिप्पर, जेसीबी, क्रशर इत्यादीनां क्रयणं कृतम्। प्रवर्तननिदेशालयस्य मते अग्रे अन्वेषणं प्रचलति।