ब्रैम्पटन-नगरस्य हिन्दु-मन्दिरस्य उपरि खालिस्तानी-जनानाम् आक्रमणस्य विरुद्धं ट्रुडोसर्वकारस्य प्रतिक्रिया
हिमसंस्कृतवार्ता: । ब्रैम्पटन-नगरस्य हिन्दु-मन्दिरस्य उपरि खालिस्तानी-जनानाम् आक्रमणस्य विरुद्धं भारतसहितं सम्पूर्णे विश्वे एतस्य घटनायाः निन्दा कृता। ततः परं कनाडादेशस्य ट्रूडो-सर्वकारः दाबे आगतः। आक्रमणसमये मन्दिरस्य बहिः प्रदर्शने सम्बद्धं पुलिस-अधिकारि: ट्रुडो-सर्वकारेण निलम्बित:। वार्तानुसारं अयं पुलिस-अधिकारी मन्दिरस्य बहिः खालिस्तान-समर्थक-विरोध-प्रदर्शने सम्मिलितः आसीत्, तस्य ध्वजं अपि हस्ते धारयति स्म । पुलिसकर्मचारिणः एतत् विडियोचित्रं सामाजिकमाध्यमेषु प्रसरित: अभवत्।
निलम्बित: पुलिसकर्मी हरिन्दरसोही इति नाम्ना परिचित:
सीबीसी न्यूज इत्यस्यानुसारं निलम्बितस्य पुलिसकर्मचारिणः पीलक्षेत्रीयपुलिसपदाधिकारी हरिन्दरसोही इति रुपेण परिचय: कृतः। विडियोमध्ये सोही खालिस्तानीध्वजं धारयति, अन्ये तु भारतविरोधी उद्घोषा: उत्थापयन्ति। प्रदर्शनसमये सोही पुलिसपरिधाने नासीत् । मीडियासम्बन्धाधिकारी रिचर्ड चिन् सीबीसी न्यूज इत्येष: ईमेलद्वारा अवदत् यत् ‘पुलिसविभाग: सामाजिकमाध्यमेषु एतत् विडियोचलचित्रं प्रसरित: अस्ति इत्यनेन अवगतः अस्ति।’ “विडियो दर्शयति यत् प्रदर्शने एकः कर्तव्यनिष्ठः पील् पुलिस-अधिकारी सम्मिलितः आसीत्।” सः अवदत् यत् अयं अधिकारी सामुदायिकसुरक्षा-पुलिस-अधिनियमस्य अन्तर्गतं निलम्बितः अस्ति।
ब्रैम्पटन-नगरस्य हिन्दु-मन्दिरस्य उपरि खालिस्तानी-जनानाम् आक्रमणस्य विरुद्धं ट्रुडोसर्वकारस्य प्रतिक्रिया
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment