HPCM : विपक्षः केवलं प्रश्नान् करोति, वयं मासे द्विवारं वेतनं दत्तवन्त:
हिमसंस्कृतवार्ता- देहरा।
मंगलवासरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः देहरानगरे मुख्यमंत्रीकार्यालयस्य, पुलिस- अधीक्षककार्यालयस्य च पूजा-अर्चनां कृत्वा उद्घाटनं कृतवान्। कार्यालयस्य प्रथमदिने एव सः विभागात् देहराविधानसभाक्षेत्रे निर्मितस्य परिधिगृहस्य विषये, पञ्चाशतकक्षै: सह अतिथिगृहस्य जलपानगृहस्य विषये च ऑनलाइन सूचनामपि गृहीतवान्। एतयोः परियोजनयोः कृते ११० कोटिरूप्यकाधिकं व्ययः भविष्यति इति अनुमानम् अस्ति। मुख्यमन्त्री सम्बन्धितविभागाय एतेषु निर्माणीयभवनानां रेखाचित्रेषु किञ्चित् विशेषपरिवर्तनं कर्तुम् अपि आह। मुख्यमंत्री उक्तवान् यत् प्रत्येकं उच्चस्तरीयकार्यालयं देहरानगरम् आगतम्। शीघ्रमेव पौंग-सरोवरे मोटर-नौकाः, शिकारे, क्रूज-यानानि च प्रचलन्ति, येन स्थानीयजनानाम् जीविका: प्राप्यते, पर्यटनं च वर्धते। एकस्मिन् प्रश्ने मुख्यमन्त्री सुक्खुः अवदत् यत् राज्यस्य आर्थिकस्थितिः उत्तमः अस्ति, विपक्षः केवलं प्रश्नान् एव पृच्छति, वयं मासे द्विवारं वेतनं दत्तवन्तः। अस्मिन्नवसरे विधायक: संजयरत्न:, विधायक कमलेशठाकुर, जसवांत: सुरिंदरमनकोटिया, राज्यस्य अनेके नेतार: अधिकारिण: च उपस्थिता अभवन्।
मातु: ज्वालादेव्या: आशीर्वादं गृहीतवान् मुख्यमंत्री
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः स्वपत्न्या विधायक कमलेशकुमारी इत्यनया सह ज्वालामुखीमन्दिरे मातु: ज्वालादेव्या: आशीर्वादं प्राप्तवान्। पुजारी तथा न्याससदस्य: अविनेन्द्र शर्मा तथा दिव्यांशु भूषण इत्येताभ्याम् विधिपूर्वकं पूजा-अर्चना कारिता। मन्दिरन्यासस्य पक्षतः मातु: वस्त्रं चित्रं च मुख्यमन्त्रिणे प्रस्तुतम्। एतस्मिन् समये पत्रकारैः सह वार्तालापं कुर्वन् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् अस्माभि: या: प्रतिज्ञा: कृता: आसन् ता: पूरिता:।