51st AIOC UDUPI : वादिराज युवाकाव्यसंगोष्ठी – युवासंस्कृतकवय: सत्यमेव संस्कृतक्षेत्रस्य रत्नानि
हिमसंस्कृतवार्ता: – उडुपि।
उडुप्यां आयोज्ये अखिलभारतीय- प्राच्यविद्यासम्मेलनस्य अवसरे २५/१०/२ दिनाङ्के राजाङ्गणमञ्चे अभिनवकविसम्मेलनस्य आयोजनं कृतम्।
श्री वादिराज तीर्थ (c.1480– c.1600[1]) द्वैतदार्शनिकः, कविः, यात्री, मीमांसकः च आसीत्। सः माध्वधर्मशास्त्रस्य तत्वशास्त्रस्य च विषये अनेकान् ग्रन्थान् लिखितवान्, प्रायः समीक्षात्मकाः। अपि च, सः अल्पवयसि एव रुक्मनीशविजयादीनां बहूनां काव्यानां रचनां कृतवान्। अस्य महान् संस्कृतकवे: स्मृतौ अध्यात्मनगर्य्याम् उडुप्यां वादिराज- युवकविगोष्ठीरूपेण देशस्य सर्वेभ्यः युवाकवीनां सम्मेलनस्य आयोजनं कृतम्। अस्मिन् सम्मेलने भारतस्य सर्वेषां राज्यानां प्रतिनिधित्वेन १५ चयनित-युवकविभिः स्वकाव्य-पाठः कृतः। कविः अस्ति- पंकजकुमार झा झारखण्डम्।
सूर्यहेब्बर:- सीएसयू,
श्रीवर्दा मालगे- केकेएसयू, रामटेक:,
उमामहेश्वरः एन-सीएसयू, ९.
अन्तरत्मा रचुरी- आत्माराम आश्रम,
गौरव आराध्या- पुणे विश्वविद्यालय,
ओमप्रकाश: दास:, शृंगेरी,
अभिजीतमंडल:, आर एम वी, बेलूर,
फिरोज:- CSU, नवदेहली,
सत्यावराकट्टी- आत्माश्रम:,
देवंगभट्ट:- सी.एस.यू., जयपुरम्,
वेदप्रकाश जोशी,
प्रो. पराग जोशी, केकेएसयू रामटेक: इत्येतै: संगोष्ठ्यां संस्कृतकाव्यानि प्रस्तुतानि।
सभाया: अध्यक्षता प्रो. रमाकान्त पाण्डेय: अकरोत्। पराग जोशी नागपुरनगरस्य अस्ति। कविगोष्ठ्यां बालिकानां सुरक्षा, संस्कृतस्य महत्त्वम् इत्यादीनि समसामयिकविषयान् सम्बोधयन्तः विविधविषयेषु अनेकानि काव्यानि प्रस्तुतानि।
अति उत्तम ,सर्वेभ्यः वर्धापनम।