51st AIOC UDUPI : अखिलभारतीय- प्राच्यविद्यासम्मेलने बौद्धिकं सांस्कृतिकं च उत्सवम्
हिमसंस्कृतवार्ता: – उडुपि।
अध्यात्मनगर्य्यां उडुप्यां प्रचलतः ५१ तमस्य अखिलभारतीय- प्राच्यसम्मेलनस्य भागत्वेन देशस्य विविधसांस्कृतिकपरिदृश्यं प्रदर्शयन्तः विविधाः सांस्कृतिककार्यक्रमाः आयोजिताः। प्रथमदिनस्य मुख्यविषयः ताड़-भारतम् इति आसीत्, ताड़-भारतम् इति नामकं उत्तमं नृत्यप्रस्तुतिः सफलतया सम्पन्ना। यत् षड्सहस्रवर्षेभ्यः अधिकेभ्यः भारतस्य सांस्कृतिक- कलाधरोहरस्य उत्तमचित्रणं कृत्वा प्रेक्षकान् आश्चर्यचकितम् अकरोत्। बेङ्गलूरुनगरस्य प्रख्यातनर्तकी निरुपमा राजेन्द्रश्च प्रख्यातनृत्यकलाकाराः च नृत्यनिर्देशशनम् अकुर्वन्। प्रदर्शनेन नृत्यस्य, संगीतस्य, साहित्यस्य च निर्विघ्नमिश्रणेन प्रेक्षका: मोहिता:, यद् भारतस्य आध्यात्मिक- कलाधरोहरस्य च अविस्मरणीय- अन्वेषणस्य प्रस्तुतिकरणं करोति। इयं प्रस्तुति: हिमालयस्य समुद्रस्य च संवादरूपेण आगता या भारतीयसभ्यतायाः विशालताया: प्रतिनिधित्वं करोति। भारतस्य शास्त्रीयमहाकाव्येभ्यः– रामायण- महाभारत- महाकाव्येभ्यः अपि च कालिदासस्य रघुवंश- शाकुन्तलम् इत्येतेभ्य: प्रेरणाम् आदाय अस्मिन् प्रदर्शने प्रेम, वीरता, हास्यं, उत्सवः इत्यादयः विविधाः भावाः बहिः आगताः।
विशेषानुक्रमेषु अन्तर्भवन्ति :
> तत् भारतम्: भारतीयजीवने ईश्वरत्वस्य समुदायस्य च जीवन्तं चित्रणम्।
> वैदिकस्य महाकाव्यस्य च समानता: वेदानां वीरमहाकाव्यानां मूल्यानां मनमोहकं प्रतिनिधित्वम्।
> अभिमन्युः महाभारततः अभिमन्यो: साहसस्य त्यागस्य च सशक्तं चित्रणम्।
> दिव्यम् उड्डयनम्: रामायणे लङ्कातः वर्णितस्य राम-सीता-लक्ष्मणानां पुनरागमनस्य काव्यात्मकं चित्रणम्।
> वसंतोत्सवः विजयनगरसाम्राज्यस्य भव्यमन्दिराणां अधः विशेषतः महानवमीपर्वणि सांस्कृतिकैकता आचर्यते।
> अस्य नृत्यप्रदर्शनस्य निर्माणं अभिनवनृत्यकम्पनी, बेङ्गलूरु इत्यनेन कृतम् अस्ति, नृत्यनिर्देशः निरुपमा राजेन्द्रः च, संगीतं प्रवीण डी. रावः द्वारा, संकल्पना च शतवधानी आर गणेशेन प्रदत्ता अस्ति।
कुलपति: श्रीनिवास वरखेड़ी, स्थानीय सचिव प्रो. शिवानीपंचमा च कलाकारान् पुरस्कृतवन्त:।