Himsanskritnews Headlines: छात्रेभ्य: प्रार्थनासभायां वक्तुं संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्रमोदी प्रतिपादितवान् यत् विगतदशवर्षेषु देशस्य स्वास्थ्यसेवाक्षेत्रे परिवर्तनानि जातानि। सः न केवलं पूर्वांचले अपितु सम्पूर्ण देशे प्रमुखस्वास्थ्यसेवाकेन्द्रत्वेन काशीनगरस्य वर्धमान प्रतिष्ठां प्रकाशितवान्। श्री मोदी स्वसंसदीयक्षेत्रस्य वाराणसीनगरे राजसंकरनेत्रचिकित्सालये उद्द्घाटनानन्तरं वदति स्म।
- दिल्ली उच्चन्यायालयेन आरटीआई अधिनियमेन सम्बद्धे एकस्मिन् प्रकरणे महत्त्वपूर्णो निर्णय: प्रदत्तः। दिल्ली उच्चन्यायालयेन उक्तं यत् सूचनाधिकारविधे: अन्तर्गतं विशेषशाखापुस्तिकायाः विवरणं सार्वजनिकं कर्तुं न शक्यते यतः तस्मिन् संवेदनशीलाः गोपनीयाः च सूचनाः भवन्ति।
- भाजपादलेन महाराष्ट्रविधानसभानिर्वाचनस्य कृते अभ्यर्थीनां सूची प्रकाशिता । प्रथमसूच्यौ ९९ अभ्यर्थीनां नामानि घोषितानि सन्ति।
- भारतस्य रॉयलओमानजलसेनयोश्च मध्ये प्रचलित: द्विपक्षीय: सैन्याभ्यासः ‘नसीम अल बह्र: इति’ गोवा-तटं निकषा सुसम्पन्न:। सैन्याभ्यासोऽयं अक्टोबरमासस्य १३ दिनाङ्कतः १८ दिनाङ्क पर्यन्तं प्राचलत् ।
हिमाचलवार्ता:
- मुख्यमंत्री सुखविन्द्रसिंहसुक्खु: डॉ. राधाकृष्णन-राजकीय- चिकित्सा- महाविद्यालयस्य नवीनपरिसरे सभागारस्य शिलान्यासम् अकरोत् । ३७ कोटिरूप्यकाणां व्ययेन अस्य सभागारस्य निर्माणं भविष्यति। महाविद्यालये प्राचार्यनिवासस्य आधारशिला अपि सः अस्थापयत् । सः अवदत् यत् चिकित्सामहाविद्यालयस्य निर्माणं २०२७ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं पूर्णं कर्तुं लक्ष्यं वर्तते।
- मुख्यमन्त्री उक्तवान् यत् हिमाचलप्रदेशस्य धरोहरेण कस्यचित् क्रीडनं न कर्तव्यम्। पूर्वभाजपासर्वकारेण ऊर्जापरियोजना: सम्पूर्णजीवनस्य कृते केवलं १२ प्रतिशतं स्वत्वशुल्के प्रदत्ता: येन हिमाचलस्य आर्थिकहानिः भवति। अतः अस्मिन् नियमे संशोधनं कृतमस्ति। सम्प्रति य: कोऽपि ऊर्जापरियोजनां प्रदेशे स्थापयिष्यति तेन प्रतिवर्षं १२ प्रतिशतं स्वत्वशुल्कं सर्वकाराय दातव्यं भविष्यति। तदतिरिक्तं १२ तः ३० वर्षपर्यन्तं १८ प्रतिशतं, ३० तः ४० वर्षपर्यन्तं ३० प्रतिशतं स्वत्वशुल्कं च दातव्यं भविष्यति।
- विपक्षनेता उक्तवान् यत् सर्वकारः जनान् भयभीतान् कृत्वा शासनं कर्तुम् इच्छति। यदा सर्वकारः अधिकारिणां कर्मचारिणां च उपरि प्रभावं स्थापयितुं असफलः अभवत् तदा लोकतन्त्रस्य चतुर्थस्तम्भः स्वस्य लक्ष्यं गृह्णाति यत् कोऽपि वार्ता न मुद्रितः न भविष्यति, कोऽपि सर्वकारः अपयश: न भविष्यति। सर्वे किमपि उत्तमं दर्शयिष्यन्ति, परन्तु अधुना तत् न भवितुमर्हति।
- हिमाचलप्रदेशे होमस्टे-एककानां कृते सर्वकारः दृढ़नियमान् प्रवर्तयिष्यति। राज्ये अनेके होमस्टे-एकका: अपि अवैधरूपेण प्रचलन्ति, यत: सर्वकारस्य कोष: किमपि न प्राप्नोति, नियमानाम् अवहेलना च क्रियते। राज्यसर्वकारेण मन्त्रिमण्डलस्य उपसमितिः निर्मिता आसीत् यया अनुशंसाः दत्ताः सन्ति। एतासां अनुशंसानाम् कार्यान्वयनार्थं पर्यटनविभागः मन्त्रिमण्डलाय प्रस्तावः प्रेषयति तथा च अस्मिन् एव मन्त्रिमण्डले सर्वकारः निर्णयंकरिष्यति।