HPCM: मुख्यमन्त्रिणा हमीरपुरे कृतं वीराङ्गनाया: लक्ष्मीबाईप्रतिमाया: अनावरणम्।
हमीरपुर- चिकित्सा- महाविद्यालयस्य कार्याणां समीक्षाऽपि कृता
हिमसंस्कृतवार्ता: – हमीरपुरम्।
मुख्यमंत्री सुखविंदरसिंहसुक्खुः शनिवासरे हमीरपुरमण्डलस्य बसस्थानकस्य समीपे वीराङ्गनाया: लक्ष्मीबाई इत्यस्याः प्रतिमायाः अनावरणं कृतवान्। अस्मिन्नवसरे मुख्यमंत्री सुक्खुः अवदत् यत् एषा प्रतिमा नारीशक्त्या:, साहसस्य, त्यागस्य च अमरकथायाः प्रतीका अस्ति। अपि च मुख्यमंत्रिणा २.३० कोटिरूप्यकाणां व्ययेन सज्जाः सौन्दर्यीकरणस्य उद्घाटनमपि विहितम्, येन क्षेत्रस्य विकासाय आकर्षणाय च नूतन: परिचयः भविष्यति। मुख्यमंत्री डॉ. राधाकृष्णन- राजकीय- चिकित्सा- महाविद्यालय- हमीरपुरस्य कार्यस्य समीक्षां कुर्वन् महाविद्यालये रोगिणां कृते उत्तमस्वास्थ्यसुविधाः प्रदातुं निर्देशं दत्तवान्।
मुख्यमंत्री सुक्खुः अवदत् यत् चिकित्सामहाविद्यालयस्य जोलसप्पड़े ४०० कोटिरूप्यकाधिकव्ययेन निर्मितं नवीनं परिसरं विश्वस्तरीयप्रौद्योगिक्या सुसज्जितैः आधुनिकयन्त्रैः सुसज्जितं भवति, तत् २९ रोगिणां कृते उपलभ्यते।
चिकित्सामहाविद्यालयस्य निर्माणस्य द्वितीयचरणस्य 300 शय्यानां क्षमतायुक्तः चिकित्साखण्ड:, राज्यकर्क्कटचिकित्सालयः, सुपर स्पेशलिटी तथा नर्सिंगमहाविद्यालयः, छात्राणां रोगिणां च अन्यसुविधाः निर्मिताः भविष्यन्ति।
अस्मिन्नवसरे स्वास्थ्य एवं परिवारकल्याण मंत्री डॉ. (कर्नल) धनी रामशाण्डिल: अपि उपस्थित:आसीत्।