Khushwant Singh Litfest Kasauli : कसौल्यां खुशवंतसिंह: “लिटफेस्ट” इत्यस्य भक्तिज्ञानप्रस्तुति-द्वारा शुभारम्भ:
हिमसंस्कृतवार्ता: – कसौली ।
देशस्य महान् लेखकानां मध्ये सुप्रसिद्धस्य खुशवन्तसिंहस्य स्मृतौ लिट्फेस्ट् इत्यस्य १३ तमस्य संस्करणस्य शुक्रवासरे कसौली क्लबे भक्तिप्रदर्शनेन शुभारम्भ: अभवत्। अस्मिन् कार्यक्रमे देशविदेशेभ्यः बहवः लेखकाः, चित्रकाराः, अभिनेतारः, सैन्याधिकारिणः, राजनैतिकव्यक्तय: च भागं गृहीतवन्तः । त्रिदिनेषु २५ सत्रेषु चर्चाः भविष्यन्ति। पूर्वं निरुपमादत्तः अतिथिनां स्वागतं अकरोत् । उद्घाटनसत्रे खुशवन्तसिंहस्य पुत्रः आयोजकः च राहुलसिंहः साहित्यकारः बच्ची करकरिया च देशविदेशयोः अतिथिनां स्वागतं कृतवन्तः ।
‘प्रतिरोधः नवीनता च’ इति विषयेण आयोजिते महोत्सवे अनेके प्रसिद्धाः जनाः भागं गृह्णन्ति। उत्सवात् प्राप्तं धनं पारिस्थितिकीविज्ञानाय, बालिकाशिक्षणाय च उपयुज्यते ।
साहित्यविमर्शानां अतिरिक्तं विविधक्षेत्रविशेषज्ञाः अपि महोत्सवे स्वीयान् अनुभवान्, विचारान् च प्रत्यक्षी कुर्वन्ति । महोत्सवस्य आरम्भः २०१२ तमे वर्षे अभवत् कोविड्-काले आभासीय-रूपेण अपि महोत्सवः आयोजितः आसीत् । भारतस्य अतिरिक्तं लण्डनदेशे खुशवन्तसिंहसाहित्यमहोत्सवः अपि आयोज्यते ।
१९७१ तमे वर्षे युद्धस्य भारतीयसेनायाः नायकः मेजर जनरल् इयान् कार्डोजो स्वस्य पुस्तकस्य चर्चां कृत्वा अस्माकं सैनिकानाम् वीरतायाः विषये युद्धस्य परिणामस्य च विषये कथितवान् । भारतीयसामाजिकमहिला-अधिकारकार्यकर्तृ, लेखिका तथा भारतस्य योजना-आयोगस्य पूर्वसदस्यः सैयदा सैय्यदैन हमीद स्वपुस्तकेन ” लाइफ ऑफ से सोल” इत्यस्मिन् महिलानां इतोऽपि सशक्तिकरणाय चर्चाम् अकरोत्। सहैव १९९० तमे दशके अपि पेप्सी इत्यादीनां कम्पनीनां विज्ञापननिदेशकाः प्रह्लाद कक्कड़, जकारीया मेहता, तसनीम इत्यादयः बहवः लेखकाः स्वविषयेषु चर्चां कृतवन्तः।