CM Sukhu: जोगिन्द्रनगरे चुल्लापरियोजनायाः निरीक्षणं कृतवान् मुख्यमन्त्री सुक्खुः, दिसम्बरमासे उत्पादनं आरभ्यते
हिमसंस्कृतवार्ता: – जोगिन्द्रनगरम्।
मुख्यमंत्री सुक्खुः स्वकीये जोगिन्दरनगरप्रवासे निर्मिणाधीनस्य चुल्ला परियोजना चुल्लापरियोजनायाः निरीक्षणं कृतवान्। इयं परियोजना दिसम्बरमासे उत्पादनं प्रारभ्य हिमाचलस्य आयं वर्धयिष्यति। शुक्रवासरे चुल्ला परियोजनायाः खुद्दरजलाशयस्य (खुद्दर रेजरवॉयर) भ्रमणं कृत्वा मुख्यमन्त्री सुखबिन्दरसिंहसुक्खु: इत्यनेन एषा सूचना मीडियासञ्चारमाध्यमेन सह प्रत्यक्षीकृता।
गतमासं यावत् जलाशयं पूरयित्वा अधुना पेनस्ट्रोक पूर्यते। एतावता प्रायः १५ तः २० दिवसाः यावत् समयः स्यात्। तदनन्तरं यन्त्रेषु जलं प्राप्स्यति, परीक्षणरूपेण क्रमेण उत्पादनं आरभ्यते। मुख्यमंत्री ऊहलः परियोजनायाः तृतीयचरणस्य जलाशयस्य निरीक्षणं कृत्वा परियोजनायाः सार्वभौमप्रतिश्रुतिरूपेण ८५ कोटिरूप्यकाणां अतिरिक्तराशिं स्वीकृत्य निर्देशं दत्तवान्। अस्याः परियोजनायाः समाप्त्यर्थं धनस्य अभावः न भविष्यति। पूर्वं अस्मिन् वर्षे मार्च, २०२४ मासे परियोजनायाः कृते १०० कोटिरूप्यकाणि विनियोजितानि सन्ति। अस्यां परियोजनायां विद्युत् उत्पादनस्य आरम्भात् एव हिमाचलप्रदेशः अतिरिक्तं आयं जनयितुम् आरभेत्।