HP Weather : हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे यथा यथा मानसूनस्य गतिः दुर्बलतां प्राप्नोति तथा तथा मंगलवासरे राजधानी शिमलानगरे लघुमेघाच्छादनं, अन्येषु मण्डलेषु सूर्यप्रकाशः च अभवत्। बुधवासरे अपि केषुचित् क्षेत्रेषु लघुवृष्टेः सम्भावना वर्तते। गुरुवासरे शुक्रवासरे च अधिकांशजनपदेषु अत्यधिकवृष्टेः पीतसचेतना निर्गता अस्ति। १३ जुलैतः १५ पर्यन्तं राज्ये वातावरणं मिश्रितम् एव तिष्ठति इति अपेक्षा अस्ति । मंगलवासरे सायं ५ वादनपर्यन्तं राज्ये ४२ मार्गाः, १२१ विद्युत्परावर्तका:, ४८ पेयजलयोजनाः निरुद्धा इति कारणेन जनै: समस्यानां सम्मुखीकरणं कर्तव्यम् अभवत् । चम्बामण्डले अधिकतमं ८० विद्युत्परिवर्तकाः, काङ्गड़ायां च ४० विद्युत्परिवर्तकाः स्थगिताः सन्ति । एतदतिरिक्तं शिमलानगरस्य १८ मार्गेषु, मण्डीमण्डले १७ मार्गेषु यातायात: बाधित: अस्ति ।
मंगलवासरे राजधानी शिमलानगरे दिवसं यावत् वातावरणं स्वच्छम् एव अभवत्। नगरं लघुमेघावरणेन सूर्य्यमयं स्थितम् । समतलजनपदेषु सूर्यप्रकाशस्य कारणात् अधिकतमं तापमानं सामान्यतः द्वौ अंशौ वर्धितम् । ऊना-बिलासपुरयोः अधिकतमं तापमानं पुनः ३६ डिग्री अतिक्रान्तम् अस्ति । मंगलवासरे राज्यस्य १३ स्थानेषु अधिकतमं तापमानं ३० डिग्रीतः अधिकं भवति । अपरपक्षे सोमवासरे रात्रौ राज्यस्य केषुचित् क्षेत्रेषु लघुवृष्टिः एव अभवत् ।
कुत्र कियती वृष्टि:
नादौने ३४ मि.मी., वाङ्गतुस्थाने ३२, भोरञ्जे १६, कसौली-क्षेत्रे १५, नाहने १३, जोगिन्दर-नगरे १०, कोटखाई-क्षेत्रे ८, शिमला-नगरे ४, मनाली-नगरे ३ मि.मी. वृष्टि: अभवत्।
क्षेत्रम् अधिकतमं तापमानम्
बिलासपुरम् ३६.५
ऊना ३६.४
भुन्तरम् ३५.४
हमीरपुरम् ३४.३
काङ्गड़ा ३४.०
मण्डी ३३.७
सोलनम् ३०.०
नाहनम् ३०.०
धर्मशाला २९.५
मनाली २६.४
शिमला २४.८