Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् अस्माकं तृतीये कार्यकाले भारतं विश्वस्य तृतीया बृहत्तमार्थव्यवस्था स्यादिति सर्वकारस्य लक्ष्यम् अस्ति ।
- प्रधानमन्त्री नरेन्द्रमोदी रूसस्य राष्ट्रपतिः व्लादिमीरः पुतिनः च मॉस्कोनगरे द्वयोः देशयोर्मध्ये जायमानस्य द्वाविंशतितमस्य वार्षिक-शिखर सम्मेलनस्य सह-अध्यक्षतां करिष्यतः ।
- बिहारे विगतासु चतुर्विंशति-होरासु कतिपयेषु भागेषु अत्यधिकवृष्टिः अभवत्।
- भारतऋतुविज्ञानविभागः (IMD) इत्यनेन आगामिषु चतुर्दिवसेषु मध्य, पूर्वोत्तर, पूर्वीभारतस्य केषुचित् भागेषु अत्यधिकवृष्ट्याः पूर्वानुमानं प्रकटितम् अस्ति।
- भारतीय-ओलंपिक संघः इत्यनेन द्वाविंशत्यधिकद्विसहस्रतमाब्दायाः ओलंपिक- क्रीडायाः कांस्य पदक-प्राप्तः लक्ष्यभेदकः गगन नारंगः पेरिसनगरे भविष्यमाणासु ओलंपिकक्रीडासु प्रतिस्पर्धायै भारतीय-दलस्य शेफ-डी-मिशन इत्येन रूपेण नामाङ्कितः ।
- अद्य चेन्नैनगरस्य एम्.ए. चिदम्बरमक्रीडाङ्गणे विंशतिप्रतिविंशति क्रिकेट-प्रतिस्पर्धायाः तृतीये अन्तिमे च द्वन्द्वे भारतीय-महिला-क्रिकेट-दलं दक्षिणाफ्रीकादलेन सह स्पर्धां करिष्यति।
हिमाचलवार्ता:
- देहराविधानसभाया: उपनिर्वाचनस्य संयोजकः सुन्दरनगरस्य विधायकः राकेशजमवालः प्रैसविज्ञप्तौ उक्तवान् यत् ३० सहस्रकोटिरूप्यकाणां ऋणं स्वीकृत्य अपि मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः राज्यस्य कोषः शून्यः इति भैरीघोषं कृत्वा जनान् भ्रामयति। सः अवदत् यत् मित्रसमूहः देहरानिर्वाचने विजयं प्राप्तुं कोटिकोटिरूप्यकाणि व्यययति। सुक्खू- सर्वकारेण भाजपाप्रत्याशिन: होशियारसिंहस्य पृष्ठतः सामान्य- वस्त्रधारिणः पुलिसबलं नियुक्तम् अस्ति, यस्य एकं चलचित्रम् अपि प्रसृतम् अभवत्।
- उच्चन्यायालयेन हिमाचलप्रदेशविश्वविद्यालये (एचपीयू) गणितविभागे २०२० तमे वर्षे द्वयोः सहाचार्ययो: नियुक्तिः निरस्तीकृता। न्यायालयेन ज्ञातं यत् एचपीयू-अधिनियमस्य १९७०, यूजीसी-नियमानाम् उल्लङ्घनेन नियुक्तयः कृताः । न्यायाधीशस्य अजयमोहनगोएलस्य न्यायालयेन याचिकायाः निस्तारणकाले विश्वविद्यालयेन नियमानुसारं द्वयोः पदयोः नवीनतया पूरणार्थं विज्ञापनं निर्गन्तुं आदेशः दत्तः।
- हिमाचलप्रदेशे यथा यथा मानसूनस्य गतिः दुर्बलतां प्राप्नोति तथा तथा मंगलवासरे राजधानी शिमलानगरे लघुमेघाच्छादनं, अन्येषु मण्डलेषु सूर्यप्रकाशः च अभवत्। बुधवासरे अपि केषुचित् क्षेत्रेषु लघुवृष्टेः सम्भावना वर्तते। गुरुवासरे शुक्रवासरे च अधिकांशजनपदेषु अत्यधिकवृष्टेः पीतसचेतना निर्गता अस्ति। १३ जुलैतः १५ पर्यन्तं राज्ये वातावरणं मिश्रितम् एव तिष्ठति इति अपेक्षा अस्ति ।
- हिमाचलप्रदेशस्य किन्नौरमण्डलस्य तरण्डाग्रामस्य हुतात्मन: हवल्दार-रोहितनेगी इत्यस्य मृतशरीरं नवमासानामनन्तरं मंगलवासरे स्वजन्मग्रामं प्राप्तवान्। २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमसप्ताहे काश्मीरसीमायां अभियानस्य समये मेघगर्जनेन आहतः रोहितनेगी स्वसहचरैः सह हिमशैलस्य अधः मग्न: अभवत् तस्मिन् समये तस्य एकस्य सहचरस्य शवः प्राप्तः, परन्तु रोहितादयः सहचराः हिमे मग्ना: आसन् ।