HP Weather : शिमलायां वृष्टि:, कुल्लौ भूस्खलनेन गोशाला पतिता, चत्वारि गृहाणि संकटे सन्ति।
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
रविवासरे हिमाचलप्रदेशे पीतसचेतनायाः मध्ये मिश्रितवायुः अभवत्। अपराह्णे राजधान्यां शिमलानगरे प्रचण्डवृष्टिः अभवत्। प्रातःकाले सूर्यप्रकाशानन्तरं सायंकाले पुनः वातावरणं निर्मलम् अभवत्। राज्यस्य अन्येषु मण्डलेषु अपि मेघाच्छन्ना: अभवन्। कुल्लुजनपदस्य दुर्गमपंचायते गाड़ापारल्या: काथलग्रामे भूस्खलनेन गोशाला ध्वस्ता। चत्वारि गृहाणि संकटग्रस्तानि सन्ति। अपरपक्षे राज्ये ४१ मार्गाः, ७१ पेयजलपरियोजनाः, ७ विद्युत् परिवर्तकाः च स्थगिताः सन्ति।
ऋतुविज्ञानकेन्द्रस्य अनुसारं सोमवासरे मंगलवासरे च उच्चपर्वतक्षेत्रेषु वातावरणं स्वच्छं भविष्यति। समतलेषु, मध्यपर्वतानां केषुचित् क्षेत्रेषु च वातावरणं प्रतिकूलम् तिष्ठति। १० जुलैतः १३ पर्यन्तं पुनः मानसूनः सक्रियः भविष्यति। सम्पूर्णे राज्ये वर्षायाः पीत-सचेतना निर्गता अस्ति। रविवासरे मण्डीमण्डले २७, शिमलानगरे ७, सिरमौरे ४, कुल्लूनगरे २, काङ्गरायां च एकः मार्गः यातायातस्य कृते अवरुद्ध एव अभवत्।