HP Bye Election : सोमवासरे निर्वाचनप्रचार: स्थगितः भविष्यति, जुलै १० दिनाङ्के मतदानम्
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे १० जुलै दिनाङ्के भाव्य उपनिर्वाचनानां निर्वाचनकोलाहलः सोमवासरे स्थगितः भविष्यति। गुरुवासरे सायं ५ वादनानन्तरं राजनैतिकदलानि सभाः, जनसभाः च कर्तुं न शक्ष्यन्ति। तथापि द्वारे द्वारे अभियानं निरन्तरं भविष्यति। देहरा, हमीरपुरं, नालागढ-क्षेत्रेषु उपनिर्वाचनस्य सज्जता निर्वाचनविभागेन सम्पन्ना अस्ति। बुधवासरे त्रिषु विधानसभाक्षेत्रेषु ३१५ मतदानकेन्द्रेषु प्रातः ७ वादनतः सायं ६ वादनपर्यन्तं मतदानं भविष्यति। ये जनाः मतदानकक्षस्य बहिः पङ्क्तौ स्थिताः सन्ति ते सर्वे जनाः मतदानं कर्तुं शक्नुवन्ति।
निर्वाचनविभागेन देहरायां १००, हमीरपुरे ९४, नालागढे १२१ मतदानकेन्द्राणि स्थापितानि सन्ति। २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के प्रकाशितानां मतदातासूचीनां अन्तर्गतं उपनिर्वाचने कुलम् २,५९,३४० मतदातारः मतदानं करिष्यन्ति । नालागढविधानसभाक्षेत्रस्य सर्वाधिकं ९४,७५५ मतदातार:, देहरायां ८६५२० मतदातारः, हमीरपुरे च ७८,०६५ मतदातारः मतदानं करिष्यन्ति। देहरायां ८५ वर्षाणाम् उपरि १४८७, हमीरपुरे १०६०, नालागढे ७८७ मतदातार: सन्ति । १८-१९ आयुवर्गे देहरायां २०४७, हमीरपुरे २२०८, नालागढे २२६८ मतदातारः सन्ति । एतदतिरिक्तं त्रिषु विधानसभाक्षेत्रेषु ७२ मतदातारः सन्ति येषां आयुः १०० वर्षाणाम् अधिकः अस्ति ।
राज्यस्य दृष्टिः देहरायाम्
देहरा विधानसभाक्षेत्रे कुलम् पञ्च प्रत्याशिन: निर्विचनस्पर्धियां सन्ति। एतेषु मुख्यस्पर्धा काङ्ग्रेसपक्षस्य कमलेशठाकुराया: भाजपापक्षस्य होशियारसिंहस्य च मध्ये अस्ति। एतस्य अतिरिक्तं सुलेखादेवी, अंकेशसयालः, अधिवक्ता संजयशर्मा च निर्दलीयप्रत्याशीरूपेण भाग्यस्य प्रयासं कुर्वन्ति। मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: पत्नी कमलेशठाकुर काङ्ग्रेसपक्षतः निर्वाचनं गृह्णाति। एतादृशे सति एतत् आसनं उष्णपीठं जातम् अस्ति तथा च राज्यस्य सर्वत्र जनानां नेत्राणि अस्मिन् आसने एव सन्ति।
हमीरपुर- विधानसभाक्षेत्रम्
हमीरपुरविधानसभाक्षेत्रे त्रयः प्रत्याशिन: निर्वाचनक्षेत्रे सन्ति। अत्र मुख्या स्पर्धा भारतीयजनतापक्षस्य काङ्ग्रेसपक्षस्य च मध्ये भवति । भारतीयजनतापार्टीति दलस्य आशीष: शर्मा, कांग्रेसपार्टीति दलस्य डॉ. पुष्पेन्द्रवर्मा व निर्दलीय: प्रत्याशी नंदलालशर्मा च निर्वाचनप्राङ्गणे सन्ति। २०१७ तमे वर्षे अपि काङ्ग्रेसस्य डॉ. पुष्पेन्द्रवर्मा, आशीषशर्मा च स्पर्धां कृतवन्तः । परन्तु तदा आशीषशर्मा निर्दलीयप्रत्याशीरूपेण निर्वाचनं कृतवान् आसीत् । २०१७ तमे वर्षे नरेन्द्रठाकुरः भाजपा प्रत्याशी आसीत्।
नालागढ़- विधानसभाक्षेत्रम्
नालागढविधानसभाक्षेत्रस्य उपनिर्वाचने कुलपञ्च प्रत्याशिन: निर्वाचनसमरे सन्ति। हरदीपसिंह बावा कांग्रेसतः, केएल ठाकुरः भाजपातः, किशोरीलालशर्मा स्वाभिमान पार्टीतः, हरप्रीतसिंहः विजयसिंहः च निर्दलीयप्रत्याशीरूपेण निर्वाचनप्राङ्गणे सन्ति।