Himsanskritnews Headlines : – प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- राष्ट्रपतिः द्रौपदी मुर्मू ओडिशा-राज्यस्य चतुर्दिवसीययात्रां वर्तते। राष्ट्रपतिः शनिवासरे सायं भुवनेश्वरे उत्कलमणिपण्डितगोपबन्धुदासस्य षण्णवतितमे पुण्यतिथिसमारोहे आयोजिते कार्यक्रमे भागं गृहीतवती।
- संसदः वित्तसंकल्पनासत्रस्य आरम्भः अस्य मासस्य द्वाविंशति दिनाङ्कात् भविष्यति।
- सर्वकारः अग्रिमेषु पञ्चवर्षेषु प्रायः द्विलक्षं यावत् ग्रामपञ्चायतेषु बहुद्देश्यीय प्राथमिक कृषि- ऋण- समिति-पैक्स इत्यस्य स्थापनां करिष्यति।
- ईरानस्य परिष्कारवादी-प्रत्याशिना मसूद पेज़ेशकियानेन राष्ट्रपति-निर्वाचनम् विजितम्।
- भारतीय-बैडमिंटन-क्रीडकः प्रियान्शु राजावतः एण्ड एण्टोन्सेन इत्येतं कनाडा ओपन बैडमिंटन प्रतिस्पर्धायाः प्रागुपान्त्यचक्रीयक्रीडायां पराजित्य उपान्त्यचक्रीय द्वन्द्वे प्रविष्टवान्।
हिमाचलवार्ता:
- हिमाचलप्रदेशे पुनः मानसूनवृष्टिः विनाशं करोति, जनाः च आश्रयस्य लक्षणं न पश्यन्ति। वर्षा-भूस्खलन-कारणात् विभिन्नेषु भागेषु यातायातस्य प्रभावः अभवत्, मार्गेषु यात्रा अपि भयङ्करा अभवत्। काङ्गड़ामण्डलस्य मुख्यालये धर्मशालायां २१४ मिलीमीटर वृष्टिः अभवत्, यत् अस्मिन् ऋतौ अत्यधिकवृष्टेः अभिलेखः अस्ति।
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शनिवासरे देहरा विधानसभाक्षेत्रस्य विभिन्नेषु स्थानेषु काङ्ग्रेसपक्षस्य पक्षे प्रबलप्रचारं कृत्वा पार्टीप्रत्याशी- कमलेशठाकुराया: पक्षे मतं याचितवान्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् काङ्ग्रेससर्वकारः कस्यापि पोङ्गजलबन्धविस्थापितपरिवारस्य भूमिहीनतां न स्थास्यति। सः अवदत् यत् सः स्वयमेव एतत् विषयं पश्यति, यदि विधानस्य परिवर्तनं कर्तव्यं भवति तर्हि सः नियमं परिवर्तयिष्यति।
- भाजपादलस्य प्रदेशाध्यक्ष: डॉ. राजीवबिन्दल शुक्रवासरे देहरानगरे भाजपाप्रत्याशिन: होशियारसिंहस्य पक्षे द्वारं द्वारं गत्वा प्रचारं कृतवान्। अस्मिन् काले सः विपणी-मध्ये आपणिकै: सामान्यजनैः सह च भाजपाप्रत्याशिन: होशियारसिंहस्य पक्षे मतदानं कर्तुम् अपि आह। डॉ. बिन्दलः जनान् आग्रहं कृतवान् यत् ते भाजपाप्रत्याशिन: विजयं सुनिश्चितं कुर्वन्तु, येन देहरा यथार्थतया विकसितुं शक्यते।
- हिमाचलप्रदेशस्य मण्डीमण्डले शुक्रवासरे रात्रौ अपि वर्षा अभवत्। अस्य कारणात् व्यासनद्याः जलस्तरः वर्धितः अस्ति। लारजी-जलबन्धात् जलं मुक्तं कृत्वा पण्डोह-जलबन्धः अपि जलेन पूरितः भवति। पण्डोहजलबन्धं प्राप्य जलस्य अनुसारं जलं मुक्तं भवति। बीबीएमबी- प्रबन्धनस्य अनुसारं पण्डोह-जलबन्धे जलस्य प्रवाहः प्रति सेकण्ड २१,३८५ क्यूसेक भवति, यदा तु १२,३८५ क्यूसेक जलं मुक्तं भवति।