ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।
१४ वर्षाणाम् अनन्तरं ब्रिटेनदेशे सत्ता-परिवर्तनं जातम्। अस्मिन् समये कंजर्वेटिव- पक्षस्य मर्दनपराजयः अभवत्। १४ वर्षाणां निर्वासनस्य अनन्तरं लेबर-पार्टी इति पक्षः पुनः सत्तां प्राप्तवान्। लेबर-पार्टी इति दलेन ऐतिहासिकं प्रदर्शनं कृत्वा ४१९ आसनानि प्राप्तानि। लेबरपार्टी इत्यस्य कीर-स्टार्मर: ब्रिटेनस्य नूतनः प्रधानमन्त्री अभवत्। प्रधानमन्त्रित्वमात्रेण सः स्वस्य मन्त्रिपरिषदः घोषणां कृतवान्। सः उपप्रधानमन्त्री अपि नियुक्तवान्। मन्त्रिमण्डलस्य निर्माणात् पूर्वं सः राज्ञा चार्ल्स-तृतीयेन सह मिलितवान्। तदनन्तरं सः देशवासिनां कृते सम्बोधनमपि कृतवान्।
एतत् कीर-स्टार्मरस्य मन्त्रिमण्डलम् अस्ति। ब्रिटिशप्रधानमन्त्री कीर-स्टार्मरेन एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता कृता। सः डेविड-लैम्मी इत्यस्य ब्रिटेनस्य नूतनविदेशमन्त्री नियुक्तवान् अस्ति। तस्मिन् एव काले जॉन-हीलो रक्षामन्त्रीरूपेण चयनितः अस्ति। कीर-स्टार्मर: यवेट-कूपरं गृहसचिवरूपेण नियुक्तवान् अस्ति। गृहमन्त्री ब्रिटेनदेशे गृहसचिवः इति उच्यते, यस्य दायित्वं देशस्य आन्तरिकसुरक्षापुलिसव्यवस्थायाः कृते अस्ति। स्टार्मर: रेचल-रीव्सम् वित्तमन्त्रीरूपेण नियुक्तवान् अस्ति। रीव्स: देशस्य प्रथमा महिला अस्ति या वित्तमन्त्री अभवत्।
जनसेवा एव ब्रिटेन-सर्वकारस्य मुख्यधर्मः- कीर-स्टार्मर:।
प्रधानमन्त्रित्वानन्तरं कीर-स्टार्मर: राष्ट्रं सम्बोधितवान्। नवनिर्वाचितः प्रधानमन्त्री कीर-स्टार्मर: अवदत् यत् जनानां व्रणाः वचनैः चिकित्सितुं न शक्यन्ते, तेषां व्रणाः कर्मणा निरामयाः भविष्यन्ति। अद्यतः कार्यम् आरभ्यते इति अस्माकं कृते बहु-आवश्यकम् इति स्टार्मर: अवदत्। आङ्ग्लसर्वकारः प्रत्येक-देशवासिनः आदरं करोति। जनसेवा एव सर्वकारस्य मुख्यधर्मः। सः जनान् प्रतिज्ञां कृतवान् यत् पुनः संसाधनाः सुदृढाः भविष्यन्ति इति। स्टार्मर: वदति यत् भवद्भिः अस्मान् बहुमतं प्रदत्तम्। वयं जनादेशस्य साहाय्येन ब्रिटेनदेशे परिवर्तनं आनेष्यामः। देशे परिवर्तनं आनेतुं सुलभं कार्यं न भवति। परिवर्तनं तत्क्षणं आनेतुं न शक्यते। परिवर्तनम् आनेतुं समयः स्यात्। परिवर्तनं लघुपदैः आरभ्यते।
२६ भारतीय-मूलस्य सांसदाः विजयं प्राप्तवन्तः।
निर्वाचने भारतीयानां तर्जनं दृष्टम् अस्ति। निर्वाचने विजयं प्राप्य भारतीयमूलस्य २६ नेतारः “हाउस- आफ- कॉमन्स” इत्यस्य कृते नामाङ्किताः सन्ति। ब्रिटिशसंसद: “हाउस- आफ- कॉमन्स” इत्यत्र भारतीयमूलस्य सांसदानां वर्चस्वं वर्धितम् अस्ति। कंजर्वेटिव- पक्षस्य मर्दनपराजयस्य अभावेऽपि ऋषिसुनकः रिचमण्ड्- नॉर्थालरटन- आसनम् प्राप्तवान् अस्ति। सुनकः रिचमण्ड् नॉर्थलर्टन्-नगरस्य जनानां प्रति कृतज्ञतां प्रकटितवान् अस्ति।