HP News : हिमाचलस्य पूर्वराज्यपक्षिणः मोनालस्य मृगया
हिमसंस्कृतवार्ता- शिमला।
शिमला-जनपदस्य रामपुरे द्वाभ्यां जनाभ्यां द्वयोः मोनालयोः अवैध-मृगयायाः प्रकरणं प्रकाशितम् अस्ति। वनविभागस्य दलेन निरीक्षणकिले अभियुक्तौ मृतपक्षिभ्यां सह दृष्ट्वा रामपुरपुलिसाय सूचितम्। पुलिसेन गुडु-लेखराजयोः विरुद्धं प्रकरणं कृत्वा अग्रे कार्यविधि आरब्धा। सूचनानुसारं वनविभागस्य दलं गतगुरुवासरे तकलेचवनक्षेत्रस्य निरीक्षणं कुर्वन् आसीत्। अस्मिन् काले गुडु-लेखराजौ कुक्खि-नाम्नि स्थाने शालायां उपविष्टौ दृष्टौ। तयो: पार्श्वे द्वौ मृतौ मोनालौ आस्ताम्, अस्मिन् काले तयो: समीपे भुशुण्डिका अपि आसीत्। तदनन्तरं निरीक्षणं कर्तुं गतेन वनविभागस्य दलेन क्षेत्रीय- वनपदाधिकारिणे सूचितं ततः सायंकाले रामपुरपुलिसस्थाने प्रकरणं पञ्जीकृतम्। वनविभागस्य दलेन द्वयोः मृतपक्षिणो: शवौ पुलिसाय समर्पितौ। एतानि इदानीं परीक्षणार्थं प्रयोगशालां प्रति प्रेषितानि भविष्यन्ति।
प्रयोगशालातः तेषां मृत्योः कारणस्य पुष्टिं कृत्वा अग्रे कार्यविधि क्रियते, वन्यजीवविधाननुसारं पक्षिणां शवौ च भूमौ स्थापितानि भविष्यत:। राज्ये आचारसंहितायां अपि भुशुण्डिकापालनसम्बद्धाः प्रश्नाः उत्थापयितुम् आरब्धाः सन्ति। ज्ञातव्यं यत् निर्वाचनविभागेन सर्वेभ्यः जनेभ्यः अनुज्ञापत्राणि निक्षेपयितुं निर्देशाः दत्ताः। एतादृशे सति अभियुक्ताः प्रशासनाय भुशुण्डिका किमर्थं न निक्षिप्तवन्तः इति प्रश्नाः उत्थापिताः सन्ति। अपरपक्षे एएसपी शिमला नवदीपसिंहः कथयति यत् पुलिसैः अभियुक्तानां विरुद्धं प्रकरणं पञ्जीकृत्य अग्रे कार्यविधि आरब्धा।