HP Election : शनिवासरे फतेहपुरे, चम्बायां, कुनिहारे च निर्वाचनसभा: करिष्यन्ति जेपीनड्डा
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशे निर्वाचनक्रियाकलापः वर्धमानः अस्ति। अस्यां श्रृङ्खलां पुनः एकवारं भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः जगतप्रकाशनड्डा हिमाचलप्रदेशस्य एकदिवसीययात्रायां वर्तते। भाजपामहासचिव: बिहारीलालशर्मा अवदत् यत् भाजपादलस्य राष्ट्रीयाध्यक्ष जगतप्रकाशनड्डा एकदिवसीये प्रवासे तिस्र: सभा: करिष्यन्ति।
एताः सभाः काङ्गड़ाजनपदस्य फतेहपुरे, चम्बायां, सोलनस्य कुनिहारे च भविष्यन्ति। सः अवदत् यत् तस्य प्रथमा जनसभा प्रातः ११:०० वादने स्थानम्- रैहनम् फतेहपुरे (काङ्गड़ा), द्वितीया जनसभा अपराह्ने १ वादने चम्बायाम् तृतीया जनसभा च सोलनस्य कुनिहारे अपराह्ने ३:३० वादने भविष्यति। सः अवदत् यत् हिमाचलस्य जनाः तृतीयवारं प्रधानमन्त्रिणं नरेन्द्रमोदीं देशस्य नेतृत्वं कर्तुं प्रतिबद्धाः सन्ति। प्रधानमन्त्री मोदी हिमाचलं द्वितीयं गृहं मन्य हिमाचलस्य विकासाय प्राधान्यं दत्तवान्।
प्रधानमंत्री मोदी ४ कोटि निर्धनपरिवाराणाम् गृहाणि निर्मितवान्। यावत् देशे प्रधानमन्त्री मोदी इव नेतृत्वं भवति तावत् कोऽपि CAA इत्यस्य उन्मूलनं कर्तुं न शक्नोति, न च अनुच्छेदं ३७० पुनः आनेतुं शक्नोति। काङ्ग्रेसः देशे शासनं करोति स्म। स्थितिः तादृशी आसीत् यत् देशे ८५ प्रतिशतं गृहेषु नलजलं नासीत्, परन्तु भारतीयजनतापक्षस्य सर्वकारस्य सत्तां प्राप्तस्य समयात् आरभ्य १४ कोटिपरिवारेभ्यः पेयजलं प्रदातुं कार्यं कृतम् अस्ति। विगतदशवर्षेषु भारतस्य प्रगतिः तीव्रगत्या अभवत्, देशः प्रत्येकस्मिन् क्षेत्रे प्रगतिम् अकरोत्।