राज्ञः चार्ल्स तृतीयस्य शीर्घमेव स्वास्थ्य लाभाय मंगलकामाः प्राकटयत् प्रधानमन्त्री श्रीनरेन्द्रमोदी
प्रधानमन्त्री श्रीनरेन्द्रमोदी ब्रिटिशदेशस्य राज्ञः चार्ल्स तृतीयस्य शीर्घमेव स्वास्थ्य लाभाय मंगलकामाः प्राकटयत्। ध्येयमस्ति यत् चार्ल्स तृतीयः प्रोस्ट्रेट इति अण्डकोशीय- कर्करोगेण प्रपीडितः सूच्यते एकस्मिन् सामाजिक-साञ्चारिक सञ्जालीये सन्देशे प्रधानमन्त्री आलिखत् यत् सः महामहिमस्य चार्ल्स-तृतीयस्य शीघ्र स्वास्थ्य-लाभार्थं शुभाकांक्षिषु समायिष्टेषु भारतीयेषु एकतमो वर्तते । ध्यानास्पदं वर्तते यत् परह्यः बकिंघमराजप्रासादेन चार्ल्सस्य कर्करोग-ग्रसन विषयिणी सूचना ख्यापिता आसीत्।
राज्ञः चार्ल्स तृतीयस्य शीर्घमेव स्वास्थ्य लाभाय मंगलकामाः प्राकटयत् प्रधानमन्त्री श्रीनरेन्द्रमोदी
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment