किन्नौरम्- सतलुजनद्यां लुप्तस्य युवकस्य अन्वेषणकर्त्रे एककोटिरूप्यकाणि प्रदास्यते , युवकस्य पिता उपायुक्ताय सन्देशं प्रेषितवान्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य किन्नौरजनपदस्य पाङ्गीनालायां सतलुजनद्यां पतिते कारयाने लुप्तस्ययुवकस्य अन्वेषणं कुर्वन् व्यक्तिः एककोटिरूप्यकाणां राशिं प्राप्स्यति। लुप्तस्य पर्यटकस्य पिता एककोटिरूप्यकाणां पुरस्कारं घोषितवान्। ज्ञातव्यं यत् दिवसद्वयात् पूर्वं किन्नौरमण्डलस्य राष्ट्रियराजमार्गे-५ पाङ्गीनालासमीपे सतलुजनद्यां इनोवाकारयानं पतितम्। अस्यां दुर्घटनायां अप्राप्तयोः जनानां मध्ये एकः चालकस्य शवः अन्वेषणकार्यक्रमे वाहनात् प्राप्त:। यदा तु अद्यापि अन्यस्य पर्यटकस्य लेशः न प्राप्तः। लुप्तता पर्यटकस्य वेट्री इत्यस्य पिता सईदाई दुरईसामी इत्यनेन यः कोऽपि तस्य पुत्रस्य स्थानं ज्ञास्यति तस्मै एककोटिरूप्यकाणां पुरस्कारं दास्यति इति घोषितवान्। वेट्री इत्यस्य पिता सईदाई दुरईसामी चेन्नैनगरस्य पूर्वमहापौर: अस्ति। सईदाई दुरईसामी इत्यनेन किन्नौरस्य उपायुक्ताय डॉ. अमितकुमाराय अपि स्वपुत्रस्य स्थानं ज्ञात्वा पुरस्कारस्य घोषणां कृत्वा सन्देशः प्रेषितः अस्ति। अपरपक्षे उपायुक्तः किन्नौरः डॉ. अमितकुमारशर्मा इत्यनेन उक्तं यत् एतादृशः एकः व्हाट्सएप-सन्देशः तस्य परिवारात् आगतः।