हिमाचल विधानसभा – विधानसमितिषु परिवर्तनम् – द्वयो: विधायकयो: मन्त्रित्वेन, एकस्य उपाध्यक्षत्वेन अभवत् निर्णयः
हिमसंस्कृतवार्ता- शिमला।
विधानसभायां समितिषु परिवर्तनं जातम् अस्ति यतः द्वौ विधायकौ मन्त्रित्वेन, एकः उपाध्यक्षत्वेन च अभवत्। येषु समितिषु मन्त्री राजेशधर्माणी, यादविन्द्रगोमा, विधानसभा उपाध्यक्ष: विनयकुमारः च अध्यक्षाः आसन्, तेषां नेतृत्वम् अधुना अन्येभ्यः विधायकानां कृते समर्पितं अस्ति। एतेषु चैतन्यशर्मा इदानीं अनुमानसमित्याः सदस्यः भविष्यति। सः अत्र विधानसभा उपाध्यक्षस्य विनयकुमारस्य स्थाने स्थास्यति। इन्द्रदत्तलखनपालः अधीनस्थविधानसमितेः अध्यक्षः इति नामाङ्कितः अस्ति । अधुना राजेन्द्र राणा लोकप्रशासनसमितेः अध्यक्षः भविष्यति, लोकेन्द्रकुमारः सदस्यत्वेन नामाङ्कितः अस्ति। मानवविकास समितौ भवानीसिंहपठानिया अध्यक्ष: एवं कुलदीपराठौर: सदस्य: भविष्यत:। सामान्यविकाससमितौ चैतन्यशर्मण: स्थाने विधायक नंदलाल: सदस्य: भविष्यति। उपाध्यक्ष: विनयकुमार: विशेषाधिकारसमित्या:, कार्यपरामर्शसमिति एवं सदस्यसुविधासमित्या: सभापति: भविष्यति। भवानी पठानिया मन्त्री यादविन्द्रगोमावर्यस्य स्थाने नियमसमित्याः सदस्या् भविष्यति। रवि ठाकुरः मन्त्री राजेशधर्माणी इत्यस्य स्थाने ई-शासन-सामान्यप्रयोजनसमित्याः सदस्यत्वेन नामाङ्कितः अस्ति । कल्याणसमित्याः विषये निर्णयः अद्यापि न कृतः। अस्यां समित्यां मन्त्रिणां यादविन्द्रगोमा-मलेन्द्रराजनयोः स्थानानि रिक्तानि सन्ति । कल्याणसमित्याम् केवलं नव सदस्याः भविष्यन्ति।