लोक-उपक्रमसमिति: – राज्ये पवनचक्र-स्थापनस्य अनुशंसा करोति, धार्मिकपर्यटनविषये अपि परामर्शं दास्यति समिति:
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
हिमाचलस्य सार्वजनिकोपक्रमसमित्या दक्षिणभारतम् इव धार्मिकपर्यटनस्य प्रचारार्थं राज्यसर्वकाराय परामर्शं दातुं राज्ये पवनचक्र-स्थापनं च कर्तुं निर्णयः कृतः अस्ति। हिमाचलप्रदेशस्य विधानसभायाः सार्वजनिकोपक्रमसमितेः अध्यक्षः राजेन्द्रराणा अवदत् यत् समितिः हिमाचलप्रदेशे अपि पवनचक्रस्थापनस्य सम्भावनायाः विषये सर्वकाराय अनुशंसां कर्तुं निश्चयं कृतवती। हिमाचलप्रदेश विधानसभायाः सार्वजनिक उपक्रमसमितेः अध्यक्षस्य राजेन्द्रराणा इत्यस्य नेतृत्वे शुक्रवासरे समितिसदस्याः भारतस्य पूर्वराष्ट्रपते: तथा भारतरत्नस्य डॉ. ए.पी.जे. अब्दुलकलामस्य तमिलनाडुप्रवासे रामेश्वरम् गत्वा कलामस्य पौत्रेच पौत्रः ए.पी.जे.एम.जे.शेखवर्येण सह अमिलन्।
समितिस्य अध्यक्षः राजेन्द्रराणा हिमाचलीटोपीं धारयित्वा तस्य सम्मानं कृतवान् तथा च हिमाचलप्रदेशविधानसभायाः नियमानाम् कार्यकरणस्य च विषये दशमसंस्करणस्य एकैकं प्रतिलिपिं च प्रदत्तवान्। एपीजे एम.जे शेख सलीम: तस्य परिवारजनाः सार्वजनिक उपक्रमसमितेः अध्यक्षस्य सदस्यानां च हार्दिकं स्वागतं कृतवन्तः। समितिः हिमाचलस्य दर्शनार्थमपि आमन्त्रितवती, तत् सः हर्षेण स्वीकृतवान् ।