चिकित्सकान्दोलनम् – चिकित्सकानां घोषणा यावत् याचनापूर्तिः न भवति तावत् विरोधः निरन्तरं भविष्यति
द्वितीयदिनेऽपि कृष्णवर्णीयं चिह्नं धृत्वा ओपीडी-मध्ये निरन्तरं सेवाः अकुर्वन्
हिमसंस्कृतवार्ता- शिमला ।
अधुना शिमलाजनपदस्य चिकित्सालयेषु प्रतिदिनं वैद्याः केवलं कृष्णवर्णीयं चिह्नं धारयित्वा एव सेवां प्रदास्यन्ति। हिमाचल-मेडिकल- आफिसर-एसोसिएशन इत्यनेन आभासीय सभायाः अनन्तरं एषः निर्णयः कृतः। यावत् स्थले आग्रहाः न पूर्यन्ते तावत् विरोधः निरन्तरं भविष्यति इति संघेन घोषितम्।
हिमाचल-मेडिकल-आफिसर- एसोसिएशन् मुख्यमन्त्रिणा सह मिलित्वा गोष्ठीं अकरोत् । सभायां संघस्य अधिकारिणः स्पष्टतया उक्तवन्तः यत् सर्वकारेण तेषां समस्याः अवगन्तव्य:। केवलं एकस्य वर्गस्य वेतनं कर्तयितुं सर्वकारः केवलं एकाधिपत्यस्य भूमिकां निर्वहति इति वैद्याः सभायां अवदन्। कस्यचित् वचनेन सर्वकारः प्रभावितः न भवेत्, यतः पूर्वमेव वैद्यानां पदोन्नतिः न प्राप्ता, अन्यविभागेषु कर्मचारिणां तु पञ्चसप्तवारं पदोन्नतिः भवति। सः अवदत् यत् एवं प्रकारेण केवलमेकवर्गे अन्यायः करणं न युक्तम्।
जनपदे शताधिकानि प्राथमिकचिकित्साकेन्द्राणि
अस्मिन् मण्डले शताधिकानि प्राथमिकस्वास्थ्यकेन्द्राणि सन्ति । दशाधिकाः सामान्यचिकित्सालयाः सन्ति । एतदतिरिक्तं नागरिकचिकित्सालया:, सामुदायिकस्वास्थ्यकेन्द्राणि च सन्ति । यतो हि एतासु स्वास्थ्यसंस्थासु सहस्रश: रोगिणः चिकित्सायै आगच्छन्ति, यदि वैद्यानाम् आग्रहाः न पूर्यन्ते तर्हि भविष्ये समस्याः उत्पद्यन्ते। वाह्यचिकित्साविभागे चिकित्सायाः अतिरिक्तं रोगिणां शल्यक्रियायाः कृते अपि कष्टानि भवितुम् अर्हन्ति ।
आपदि प्रशंसनीयं कार्यं कृतम्
आपदा-काले कृतस्य प्रशंसनीयस्य कार्यस्य विषये वैद्याः मुख्यमंत्रिणे सूचितवन्तः। सप्ताहे सप्तदिनानि २४ घण्टाः आपदि आहतानाम् रोगिणां चिकित्सां कर्तुं सः कार्यं कृतवान् इति कथितम्। अतः सर्वकारेण तेषां कार्याणि चिन्तनीयानि।