इतिहासविभाग: – सरदारपटेलविश्वविद्यालय: मंडी इत्यस्य विद्यार्थिभ्याम् उत्तीर्णा यू जी सी नेट परीक्षा।
हिमसंस्कृतवार्ता:- डॉ. राकेश शर्मा/ डॉ. अमित शर्मा
सरदारपटेलविश्वविद्यालय मंडी इत्यस्य इतिहास विभागस्य द्वाभ्यां विद्यार्थिभ्यां कर्मा दोरजे नेगी, उत्सव जयसूर्य: इत्येताभ्यां यूजीसीद्वारा आयोजिता नेट परीक्षा उत्तीर्णा। सूचनेयं विभागाय विश्वविद्यालयाय च हर्षस्य गर्वस्य च विषयोऽस्ति। कर्मा दोरजे मूलतः किन्नौरस्य हंगरंग उपमण्डलस्य हांगो ग्रामस्य निवासी अस्ति। तस्य पिता प्रकाश चंद कृषक: वर्तते। सः इतिहासविभागस्य स्नातकोत्तर- तृतीयसत्रस्य विद्यार्थी वर्तते। यद्यपि उत्सव जयसूर्य: च इतिहासविभागे डॉ राकेशकुमारशर्मावर्यस्य मार्गदर्शने विद्यावारिधि शोधकार्यं कुर्वन्नस्ति। उत्सव द्वितीयवारं यूजीसी नेटपरीक्षा उत्तीर्णा। सरदारपटेलविश्वविद्यालय मंडी इत्यस्य प्रतिकुलपति: आचार्य अनुपमा सिंह: इतिहासविभागस्य उभाभ्यां विद्यार्थिभ्यां शुभकामना: प्रयच्छत्। इतिहासविभागस्य प्रभारी, सहायकाचार्य: डॉ. राकेश कुमार शर्मा अपि उभाभ्यां छात्राभ्यां वर्धापयन् अवदत् यत् इदं तयो: कठिनपरिश्रमस्य एव फलम्। तौ विभागस्य विश्वविद्यालयस्य च गौरवं वर्धितवन्तः। कर्मा दोरजे उक्तवान् यत् इयं सफलता ईश्वरस्य, पित्रो:, प्राध्यापकाभ्यां च आशीर्वादस्य मार्गदर्शनस्य च फलमस्ति। उत्सवेन उक्तं यत् तेन द्वितीयबारं इयं परीक्षा उत्तीर्णा। मात्र अंकद्वयेन जे. आर. एफ. इति अवशिष्ट:। आचार्य राजेशकुमारशर्मा, अधिष्ठाता महाविद्यालय- विकासपरिषद्, इतिहासविभागस्य सहायकाचार्य डॉ. रामपाल:, विकेशकुमार:, राजेशशर्मा, इतिहास समूहस्य अध्यक्षा पुनीत भारती, समूहस्य पदाधिकारिभि: सदस्यै: सहितं सर्वै: विद्यार्थिभि: शुभकामना: प्रदत्ता:।