मुख्यमंत्री सुखविन्दरसिंहसुक्खुः –
७ सहस्र-एकलमहिलाभ्य: विधवानारीभ्य: गृहनिर्माणार्थं सर्वकारः १.५ लक्षरूप्यकाणि दास्यति
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यसर्वकारः शीघ्रमेव मुख्यमन्त्री विधवा-एकलमहिला आवासयोजनां प्रारभ्यते। सः अवदत् यत् अस्याः योजनायाः अन्तर्गतं योग्यविधवानां एकलमहिलानां च गृहनिर्माणार्थं १.५० लक्षरूप्यकाणां आर्थिकसहायता प्रदत्ता भविष्यति। योजनायाः अन्तर्गतं ७ सहस्र महिलाभ्य: गृहनिर्माणार्थं सहायतां दातुं लक्ष्यं निर्धारितम् अस्ति ।
मुख्यमन्त्री उक्तवान् यत् महिला उत्थानाय समर्पितायाः अस्याः योजनायाः सद्यः एव आयोजिते मन्त्रिमण्डलस्य सत्रे सिद्धान्ततः अनुमोदनं प्राप्तम्। योजनायाः अन्तिमरूपरेखा सज्जीक्रियते। अस्याः योजनायाः अन्तर्गतं निर्मिते गृहे विद्युत्, जलं इत्यादीनि आवश्यका: सुविधा: अपि प्रदत्ता: भविष्यन्ति। मुख्यमंत्री उक्तवान् यत् राज्यसर्वकारः समाजस्य समग्रविकासाय प्रतिबद्धः अस्ति तथा च वंचितवर्गस्य कल्याणाय विविधाः योजनाः आरब्धाः सन्ति। सः अवदत् यत् सः स्वयमेव साधारणकुटुम्बस्य अस्ति, समाजस्य दुर्बलवर्गस्य दुःखान् समस्या: च सुविदितः अस्ति। वर्षे राज्यसर्वकारेण तेषां जीवनस्तरस्य उन्नयनार्थं बहवः नवीनाः उपक्रमाः कृताः सन्ति ।
मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः चतुर्सहस्राधिकान् अनाथबालान् ‘राज्यस्य बालकान्’ इति दत्तकं दत्त्वा मुख्यामन्त्री सुख-आश्रययोजनायाः सफलकार्यन्वयनं सुनिश्चितं करोति। सः अवदत् यत् हिमाचलं देशस्य प्रथमं राज्यं यत्र राज्यसर्वकारः अनाथबालानां परिचर्यायाः, शिक्षायाः च उत्तरदायित्वं गृह्णाति। राज्यसर्वकारः एतेभ्यः बालकेभ्यः २७ वर्षपर्यन्तं प्रतिमासं ४००० रूप्यकाणि कोषधनरूपेण प्रदाति। सः अवदत् यत् राज्यसर्वकारस्य एष उपक्रमः वंचितवर्गस्य सामाजिकोत्थानस्य उपक्रमं प्रतिबिम्बयति। राज्यसर्वकारः राज्यस्य सर्वतोमुखविकासं सुनिश्चित्य समाजस्य वंचितवर्गान् विकासस्य मुख्यधारायां समावेशयति।