दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकम् – उच्च-न्यायालय:
नियमविरुद्धं दुष्कर्मपीडितायाः अन्वीक्षणं, उच्चन्यायालयेन वैद्यानां उपरि ५ लक्षरूप्यकाणां दण्डः स्थापित:
हिमसंस्कृतवार्ता- शिमला।
हिमाचलप्रदेश उच्चन्यायालयेन दुष्कर्मपीडितायाः अङ्गुलयोः परीक्षणं कृत्वा पालमपुरनागरिकचिकित्सालयस्य वैद्यान् घोररूपेण ताडयित्वा ५ लक्षरूप्यकाणां दण्डः अपि कृतः। अङ्गुलयोः परीक्षणं कृतवन्तः वैद्याः दण्डराशिं संग्रह्य पीडितायाः कृते दातुं उच्चन्यायालयेन आदेशः दत्तः अस्ति।
अधुना प्रकरणस्य श्रवणं फेब्रुवरी-मासस्य २७ दिनाङ्के भविष्यति। न्यायाधीशस्य तरलोकसिंहचौहानस्य न्यायाधीशस्य सत्येनवैद्यस्य च पीठिका अवदत् यत् दुष्कर्मपीडितायाः अङ्गुलीद्वयपरीक्षणम् अपमानजनकं वर्तते। एतत् अन्वेषणं पीठिका महिलायाः पवित्रतायाः आत्मन: च विरुद्धं अपराधः इति उक्तम्।
पीडितायाः उपरि द्विअङ्गुलीपरीक्षां कृतवन्तः वैद्याः उत्तरदायित्वं निर्धारयितुं अन्वेष्टुं अपि पीठिका सर्वकारेण आह। पीडितायाः गौरवस्य अपमानं जातम् इति पीठिका अवदत्। तस्य गोपनीयतायाः अपि पालनं न कृतम् । अस्य कारणात् पीडिता मानसिकदुःखं प्राप्नोत् ।
सर्वकार: पीडितायै ५ लक्षरूप्यकाणां दण्डः दद्यात्, पश्चात् दोषी वैद्यानां वेतनात् स्वीकुर्यात्। न्यायालयेन उक्तं यत् एषा परीक्षा सर्वोच्चन्यायालयस्य स्थगनस्य अनन्तरं कृता, यत् पीडिताया: अधिकारस्य अति- उल्लङ्घनम् अस्ति। वैद्येभ्यः दृढ़ा सचेतना दत्ता यत् एतादृशी परीक्षां कुर्वतां विरुद्धं अभियोगः भविष्यति इति च अवदत्।
वेद्येभ्यः कठिना सचेतना
उच्चन्यायालयेन वैद्यानां कृते कठिना सचेतना दत्ता, ये एतादृशी परीक्षां कुर्वन्ति तेषां विरुद्धं अभियोगः भविष्यति इति उक्तवान्। न्यायालयेन चिकित्सालयेन परिकल्पितं अन्वेषणप्रपत्रं वैधानिकदृष्टौ दुष्टं मानितम्, भारतीयसाक्ष्यकानूनस्य धारा ५३ ए इत्यस्य अवहेलना च इति। यौनहिंसायाः पीडितया सह स्वास्थ्यव्यवसायिनां व्यवहारविषये स्वास्थ्यपरिवारकल्याणमन्त्रालयेन निर्गतमार्गदर्शिकानां उल्लङ्घनम् अपि अस्ति।