सर्वकार: ग्रामस्य द्वारे – हिमाचलस्य १२ ग्रामेषु मुख्यमंत्री उपमुख्यमंत्री एवं मन्त्रिण: करिष्यन्ति जनसमस्यानां निराकरणम्, अनुसूची निर्गता
हिमसंस्कृतवार्ता- शिमला।
१७ जनवरीतः आयोज्ये सर्वकार: ग्रामस्य द्वारे कार्यक्रमे मुख्यमन्त्री, उपमुख्यमन्त्री, नवमन्त्रिणः च विधानसभाध्यक्षेण, उपाध्यक्षेण च सह १२ जनपदेषु १२ ग्रामेषु जनानां समस्यानां निराकरणम् करिष्यन्ति। राजस्वमन्त्री जगतसिंहनेगी गुरुवासरे सचिवालये सर्वकार: ग्रामस्य द्वारकार्यक्रमस्य सज्जतायाः विषये आयोजितायाः समीक्षासभायाः अध्यक्षतां कुर्वन् एतां सूचनां दत्तवान्। सर्वेषां मण्डलानां उपायुक्ताः आभासीयमाध्यमेन सभायां सम्मिलिताः। नेगी इत्यनेन उक्तं यत् १७ जनवरी दिनाङ्के मुख्यमन्त्री सुखविन्दरसिंहः हमीरपुरस्य नादौनस्य गलोडग्रामे औपचारिकरूपेण कार्यक्रमस्य आरम्भं करिष्यति।
ऊना जनपदस्य हरोल्या: दुलेहड़े उपमुख्यमंत्री मुकेश अग्निहोत्री, चम्बाजनपदस्य भटियातस्य कुड्डीग्रामे विधानसभाध्यक्ष: कुलदीपसिंहपठानिया, कांगड़ाजनपदस्य जवाल्या: पलोरायां कृषि एवं पशुपालनमंत्री चंद्रकुमार:, स्वास्थ्य-एवं-परिवारकल्याणमंत्री डॉ. धनीरामशाण्डिल: सोलनजनपदस्य नौणीग्रामे, उद्योगमंत्री हर्षवर्धनचौहान: सिरमौरजनपदस्य शिलाईक्षेत्रस्य बकरासे, ग्रामीणविकास-एवं-पंचायती राजमंत्री अनिरुद्धसिंह:, मंडीजनपदस्य बल्हक्षेत्रस्य के छातडू़ इत्यत्र, लोकनिर्माणमंत्री विक्रमादित्यसिंह:, शिमलाजनपदस्य चौपालक्षेत्रस्य बमटायां, तकनीकीशिक्षामन्त्री राजेशधर्माणी, बिलासपुरजनपदस्य घुमरवींक्षेत्रस्य कसारूग्रामे, आयुषमंत्री यादवेन्द्रगोमा च कुल्लूजनपदस्य बजाऔरायां कार्यक्रमस्य अध्यक्षतां करिष्यन्ति । विधानसभाया: उपाध्यक्ष: विनयकुमार: लाहौल-स्पीतिजनपदस्य ताबोग्रामे अस्य कार्यक्रमस्य अध्यक्षता करिष्यति।
अतिरिक्तमुख्यसचिवः राजस्व ओंकारचन्दशर्मा इत्यनेन उक्तं यत् राजस्वमन्त्री जगतसिंहनेगी १७ जनवरी दिनाङ्के किन्नौरस्य चगांवे कार्यक्रमस्य अध्यक्षतां करिष्यति। कार्यक्रमे प्रत्येकं जनपदे ग्रामसभाया: आयोजनं क्रियते। एतदतिरिक्तं सर्वेषां विभागानां प्रदर्शनीनां स्वास्थ्यशिबिराणां च आयोजनं भविष्यति। सः अवदत् यत् सूचना-जनसम्पर्कविभागः जनान् सर्वकारस्य विविध-उपार्जनानां विषये अवगतं करिष्यति।