राज्यनिर्वाचनायोग: – लोकसभाया: निर्वाचनात् पूर्वं जागरूका: भविष्यन्ति मतदातार:, 25 दिनाङ्कात् राष्ट्रियमतदातादिवसे आरप्स्यते अभियानम्
हिमसंस्कृतवार्ता:- शिमला।
राज्यनिर्वाचनायोगः नूतनमतदातॄणां जागरूकीकरणाय अभियानं प्रारभ्यते। अस्मिन् मासे जनवरीमासस्य २५ दिनाङ्कात् एतद् अभियानम् आरभ्यते। राष्ट्रियमतदातादिवसस्य अवसरे राज्यनिर्वाचनायोगः राज्ये विभिन्नस्थानेषु नवमतदातृषु जागरूकतां जनयिष्यति। निर्वाचन-आयोगेन सम्पूर्णे राज्ये अभियानं चालयितुम् अधिकारिभ्यः सतर्काः भवितुम् निर्देशाः निर्गता:।
मुख्यनिर्वाचनाधिकारिण: मनीषगर्गस्य अनुसार अग्रिमेषु दिनेषु लोकसभा-निर्वाचन-सम्बन्धिता: गतिविधिय: तीव्रा: भविष्यन्ति। अस्मिन् मतदातारः स्वमतदानविषये अवगताः भविष्यन्ति। २५ जनवरी दिनाङ्के राष्ट्रियमतदातादिवसः आचर्यते। एतेन अधिकाः युवानः मतदातार: राजनैतिकप्रक्रियायां भागं ग्रहीतुं प्रोत्साहिताः भविष्यन्ति। अक्तूबरमासस्य समये राज्यस्य ६८ विधानसभाक्षेत्रेषु भावचित्रमतदातृसूचौ (फोटो मतदातासूचि) आहत्य ५४ लक्षं ९७ सहस्रं २१६ मतदातॄणां नामानि पञ्जीकृतानि आसन्। पुनर्निरीक्षणकाले कुलम् एकलक्षचतुसहस्राणि ८८२ मतदातारः पञ्जीकृताः। उक्तपुनरीक्षणकाले १८-१९ वर्षाणां आयुवर्गे ४८ सहस्राणि १८३ नवीनमतदातृणां नामानि पञ्जीकृतानि इति कथितम्।
एतदतिरिक्तं मृत्योः कारणात् अथवा स्थानपरिवर्तनं, पञ्जीकरणम् इत्यादिना मतदातासूचिकातः ४६ सहस्राणि ९७ मतदातानां नामानि निष्कासितानि सन्ति। एवं प्रकारेण मतदातासूचौ कुलम् ५८ सहस्रं ७८५ मतदातॄणां वृद्धिः अभवत्। राज्ये अन्तिमप्रकाशितमतदातासूचौ कुलम् ६६ सहस्रं ७५६ मतदातारः पञ्जीकृताः सन्ति । सः इदमपि अवदत् यत् अधुना राज्यस्य सर्वेषां विधानसभाक्षेत्राणां भावचित्रमतदातृसूचौ (फोटो मतदातासूचि) कुलम् ५५ लक्षं ५६ सहस्रं मतदातारः पञ्जीकृताः सन्ति। तेषु २८ लक्षं सप्तसहस्रं ३८७ पुरुषाः २७ लक्षं ४८ सहस्रं ५७८ महिलाः च सन्ति, ३६ तृतीयलिङ्गस्य सन्ति। लोकसभानिर्वाचनात् पूर्वं नूतना: मतदातार: जागरूकाः भविष्यन्ति इति सः अवदत्। तेभ्यः प्रथमवारं मतदानस्य, ईवीएम-प्रयोगस्य च विषये सम्पूर्णा सूचना दीयते।