वेदविद्या वैदिककर्मकाण्डस्य स्वरूपम्
वेदस्य प्रधानं लक्ष्यं हि ज्ञानदानं, येन प्राणिमात्रम् अस्य संसारस्य बन्धनकारणम् अभिज्ञाय अस्मात् मुक्तिं लब्धुं शक्नुयात्। अतो वेदेषु कर्मकाण्डं तथा ज्ञानकाण्डम् इत्यनयोः विषययोः सर्वाङ्गीणनिरूपणं कृतं वर्तते। वेदानां प्रारम्भिकभागः कर्मकाण्डं वर्तते, अपरभागश्च ज्ञानकाण्डमिति। अनयोः कर्मकाण्डं विशालतरम्। कर्मकाण्डे यज्ञानुष्ठानस्य विधिनिषेधात्मकं सर्वाङ्गीणं विवेचनं कृतमस्ति। अस्य भागस्य प्रधानोपयोगस्तु यज्ञानुष्ठानेषु हि भवति। यो वैदिकविद्वान् यजमानद्वारा यज्ञाचरणस्य अधिकारं प्राप्तवान् अस्ति, सः ‘ऋत्विक्’ उच्यते। एतादृशां ऋत्विजां चत्वारः भागाः सन्ति- होतृगणः, अध्वर्युगणः, उद्गातृगणः, ब्रह्मगणः चेति। एतस्य गणचतुष्टयस्य कारणतः, प्रत्येकं वर्गाणाम् उपयोगिमन्त्राणां सङ्ग्रहानुसारं वेदाः अपि चत्वारः अभवन्। तत्संक्षेपेणात्र निरूप्यते-
ऋग्वेदः- अस्मिन् वेदे होतृवर्गस्य कृते उपयोगिमन्त्राणां संकलनं कृतं प्राप्यते। अत्र ‘ऋक्’ इति संज्ञकमन्त्राणाम् अधिकता प्राप्यते। अस्मिन् वेदे मन्त्रसंख्या अन्यवेदानाम् अपेक्षया अधिका।
यजुर्वेदः- अस्मिन् वेदे यज्ञानुष्ठानार्थम् अध्वर्युवर्गस्य कृते उपयोगिमन्त्राणां संकलनमस्ति। अत्र गद्यात्मकमन्त्राणां बहुलता अवलोक्यते।
सामवेदः- अस्मिन् वेदे यज्ञानुष्ठानार्थम् उद्गातृवर्गस्य कृते उपयोगिमन्त्राणां संकलनमस्ति। अत्र गायनपद्धतेः निश्चितमन्त्राः उपलभ्यन्ते- ‘गीतिषु सामाख्या’ इति।
अथर्ववेदः- अत्र यज्ञानुष्ठानार्थं ब्रह्मवर्गस्य कृते उपयोगिमन्त्राणां संकलनम् उपलभ्यते। ब्रह्मवर्गस्य कार्यं यत् यज्ञस्य विधिनिरीक्षणं, नियमानुसारं निर्देशादेशदिप्रदानं, त्रुट्यवसरे प्रायश्चित्तविधानम् इत्यादिकमिति, शम्।
-नारदः।