महाभारतकथा- त्रिगर्तै: कौरवैश्च विराटराज्ये-आक्रमणम् । विराटस्य विजयः । अभिमन्यु-उत्ततयो: विवाहः।
कीचकः एक: वीरः योद्धा आसीत् यस्य दुष्कृतानां परिणामः भीमहस्ताभ्यां मृत्युः अभवत् । विराटराज्यस्य कृते कीचकः शक्तिशालि: सेनापतिः रक्षकः च आसीत्, अतः एव त्रिगर्तदेशस्य राजा सुशर्मा कीचकेन सह युद्धे बहुवारं अपमानितः आसीत् । कीचकस्य मृत्योः समाचारं श्रुत्वा सः विराटात् प्रतिशोधाय चिन्तितवान् । सुशर्मा दुर्योधनस्य मित्रम् आसीत् । सः दुर्योधनं अवदत् यत् यदि भवन्तः विराटस्य गावः आनीताः तर्हि युद्धकाले दुग्धस्य आवश्यकता पूर्णा भविष्यति। यूयं सज्जाः भवन्तु, अहं विराटराज्यस्य उपरि आक्रमणं कर्तुं गच्छामि।
तस्य गमनमात्रेण एव दुर्योधनोऽपि भीष्म-द्रोणाचार्य-कृपाचार्य-कर्ण-अश्वत्थामा-आदि-वीरैः सह विराटनगरमुपरि आक्रमणं कृतवान् । तस्मिन् कठिने समये महाराज: विराट: कीचकं स्मृत्वा रोदितुम् आरब्धवान् परन्तु कङ्कः (युधिष्ठिरः) तस्मै धैर्यं दत्तवान् । सुशर्मा विराट्-नगरे घोरं आक्रमणं कृत्वा शीघ्रमेव विराटराजं बद्धवान् । इति दृष्ट्वा युद्धभूमौ हाहाकार: प्रारब्ध: जात: । अथ कङ्कः वल्लभं (भीमं) आहूय स्वराजं विराटं मुक्तये प्रार्थितवान्। वीरः वल्लभः अर्थात् भीमः युद्धक्षेत्रे घोरं विनाशं कृत्वा सुशर्मां बद्ध्वा कङ्कस्य पुरतः प्रस्तुत्य विराटनरेशं अविमोचयत्।
अपरपक्षे, तस्मिन् एव काले विराटराज्यस्योपरि कौरवानां आक्रमणस्य विषये सूचना प्राप्ता । दुर्योधनः भीष्मं पृष्टवान् यत् पाण्डवानां अज्ञातवासकालः समाप्तः वा न वा इति । तदैव पितामहः भीष्मः अवदत् यत् एकमतेन अयं कालः समाप्तः, परन्तु अन्येन मतेन अद्यापि कतिपयानि दिवसानि अवशिष्टानि सन्ति।
विराटनगरे द्विगुणाक्रमणेन विराटनरेश: भीतः आसीत्, विराटराज्यस्य उद्धारः केन प्रकारेण भविष्यति इति कठिनः एव प्रतीयते स्म, युद्धाय कोऽपि योद्धा सज्जः न आसीत् । ततः बृहन्नलाया:(अर्जुनस्य) आज्ञानुसारं विराटस्य पुत्र: उत्तरकुमारः युद्धाय सज्जः अभवत् । अर्जुनेन कथितं यत् – “अहं बृहन्नला एव महान् धनुर्धर अर्जुन: अस्मि”। अर्जुनेन अनेन प्रकारेण निज यथार्थपरिचयं प्रकटयित्वा शीघ्रमेव तस्यैव शमीवृक्षमनु गत्वा स्व महद्धनु गाण्डीवं –अक्षयतुनीरं च अवतारय युद्धक्षेत्रे आगत्य घोरं युद्धं कृतम् । अर्जुनः युद्धे कर्णपुत्रं हत्वा कर्णस्य अपि क्षतिं कृतवान्, द्रोणाचार्यस्य भीष्मस्य च धनुषौ छित्त्वा सम्मोहनास्त्रेण कौरवसेनाम् अचेतनं कृतवान्। युद्धानन्तरं विराट: पाण्डवानां परिचयं प्राप्तवान् ।
महाराजविराट: विराटराज्यस्य रक्षणेन अतीव प्रसन्नः आसीत्, अतः सः स्वपुत्र्याः उत्तरायाः विवाह: अर्जुनं प्रति प्रस्तावितवान् । परन्तु अर्जुनः अवदत् यत् सः बृहन्नलारूपेण उत्तराया: आचार्यः आसीत्, अतः सः तां पुत्रिवत् मन्यते । अतः सः स्वपुत्राय अभिमन्युं प्रति उत्तराया: विवाह: प्रस्तावितवान् यत् सर्वैः स्वीकृतम् अत: सहर्षेण अभिमन्युः-उत्तरा विवाहितौ जातौ।
–दिलीप: