हिममयं हिमाचलम् – हिमाचले समाप्ता हिमपातस्य प्रतीक्षा।
हिमसंस्कृतवार्ताः।
हिमाचले हिमपातस्य प्रतीक्षा समाप्ता, परन्तु अद्यापि वर्षा न अभवत्। यद्यपि केषुचित् स्थानेषु विच्छिन्ना वृष्टिः अभवत्, परन्तु मेघाः यथा आवश्यकं तथा न अवर्षन्, परन्तु आकाशे मेघानां कारणात् जनाः अवश्यमेव आशां कुर्वन्ति यत् अनावृष्टिः समाप्ता भविष्यति। मौसमविभागानुसारं राज्ये आगामिषड्दिनानि यावत् तीव्रशीततरङ्गः निरन्तरं भविष्यति। पूर्वानुमानानुसारं २४, २५ दिनाङ्केषु समतलक्षेत्रेषु सघननीहारस्य संसूचना निर्गता अस्ति। सोमवासरे पर्वतेषु हिमपातस्य कारणात् मण्डी, किन्नौर, लाहौल-स्पितिः, चम्बा इत्यादिषु अनेकेषु क्षेत्रेषु तापः शून्यात् अधः प्राप्तः अस्ति। ताबोनगरे न्यूनतमं १०.२ डिग्री तापमानं ज्ञातम्, ऊना- हमीरपुर- बिलासपुरनगरेषु अपि कोहराकारणात् जीवनं प्रभावितम् अस्ति। सोमवासरस्य प्रातःकालादेव रोहताङ्ग-दर्रेण सह उच्चशिखरेषु हिमपातः आरब्धः अस्ति। रोहताङ्गनगरे १० से.मी.पर्यन्तं हिमपातः ज्ञातः अस्ति। राजधानी शिमलानगरे अपि हिमपातः अभवत्, यस्मात् कारणात् पञ्जाब- हरियाणा- राजस्थान- दिल्ली इत्यादिभ्यः अन्येभ्यः राज्येभ्यः आगच्छन्तः पर्यटकाः आनन्दं लभन्ते। क्रिसमस- नववर्ष- उत्सवयोः कृते बहुसंख्यकाः पर्यटकाः कुल्लू-मनाली-नगरं प्राप्तवन्तः। राज्यस्य अनेकस्थानेषु लघुवृष्टिः, हिमपातः च भविष्यति इति IMD इत्यस्य वरिष्ठः वैज्ञानिकः शोभित् कटियारः कथितवान्। २८ दिसम्बर दिनाङ्के पश्चिमविकारस्य प्रभावात् अनेकेषु स्थानेषु वर्षा, हिमपातः च भविष्यति।