HP Vidhan Sabha Winter Session: लोकसभा इव हिमाचलविधानसभायां प्रथमवारं शून्यकाल: आयोजित:, विधायकाः प्रश्नान् पृष्टवन्तः
हिमसंस्कृतवार्ता: – धर्मशाला।
हिमाचलप्रदेशविधानसभायाः शिशिरसत्रस्य तृतीयदिने ऐतिहासिकः आरम्भः अभवत्। हिमाचलसभायाः इतिहासे प्रथमवारं सत्रस्य तृतीयदिने शुक्रवासरे शून्यकाल: आरब्ध:। प्रातः ११ वादनतः मध्याह्न १२ पर्यन्तं प्रश्नहोरायाः अनन्तरं लोकसभा-राज्यसभा-पङ्क्तौ इव अर्धहोरापर्यन्तं सदने शून्यकालस्य आयोजनं कृतम्। अस्मिन् काले सप्त विधायकाः स्वस्वक्षेत्रस्य समस्याः उत्थापितवन्तः। शून्यकालस्य अस्मिन् प्रकरणे लाहौलस्पीतिविधायिका अनुराधा राणा प्रथमतया प्रश्नं उत्थापितवती। तत: विधायक: जनकराज:, केवलसिंह पठानिया, सुखराम चौधरी, संजयरत्न:, त्रिलोक जम्बाल:, हरदीपसिंह: बाबा सदने प्रश्नान् पृष्टवन्त:।
अस्मिन् समये विधानसभाध्यक्षः अवदत् यत् लोकसभायाः पङ्क्तौ इव हिमाचलविधानसभायां अपि शून्यकाल: आरब्ध:। सः अवदत् यत् शून्यकालस्य आरम्भेण विधायकाः प्रश्नहोरायाः अतिरिक्तम् अर्धहोरापर्यन्तं स्वक्षेत्रस्य समस्याः उत्थापयितुम् अवसरं प्राप्नुयुः। एतदर्थं सत्रस्य आरम्भात् सार्धैकहोरा पूर्वं सदस्यै: सूचितं कर्तव्यं भविष्यति इति सः अवदत्। अस्मिन् कालखण्डे प्रथमदशसदस्यानां प्राधान्यं भविष्यति। यदि सम्बन्धितः मन्त्री एतस्य उत्तरं दातुम् इच्छति तर्हि सः तत् कर्तुं शक्नोति, अन्यथा पश्चात् अपि तस्मै सूचना प्रदत्ता भविष्यति। इतरथा विपक्षनेता जयरामठाकुर:, राजस्वमन्त्री जगतसिंह: नेगी, स्वास्थ्यमन्त्री कर्णल: धनीरामशाण्डिलः अपि हिमाचलविधानसभायां प्रथमवारं शून्यकालस्य आरम्भे सभापतिम् अभिनन्दितवन्त:।