HIMCARE SCHEME : हिमकेयरविषये सर्वकारस्य अग्रिमयोजना का अस्ति? मन्त्रिमण्डलस्य उपसमित्याः सभायां जाता चर्चा
हिमसंस्कृतवार्ता: – धर्मशाला।
आयुष्मानभारतम् एवं हिमकेयर- योजनाया: सन्दर्भे निर्मिताया: मन्त्रिमण्डलस्य उपसमित्या: गोष्ठी समित्या: अध्यक्षस्य उपमुख्यमंत्रिण: मुकेश-अग्रिहोत्रिण: च अध्यक्षतायां धर्मशालायां सम्पन्ना। सभायां योजनासम्बद्धाः विविधाः पक्षाः चर्चिता:। सभायां समितिः आयुष्मानभारतस्य अन्तर्गतं व्ययितां सम्पूर्णां राशिं केन्द्रसर्वकारेण विमोचयितुं प्रार्थनाम् अकरोत्। खण्डस्तरस्य स्वास्थ्यसंरचनायाः सुदृढीकरणाय, अधिकाधिकजनानां लाभाय हिमकेयरयोजनायाः दोषान् दूरीकर्तुं च अग्रिमे सत्रे प्रारूपं सज्जीकर्तुं निर्देशः दत्तः।