HPRCA : युवभ्य: शुभवार्ता, जेबीटीसहितम् १,४२३ पदानां नियुक्तये आयुसीमायां द्विवर्षीयापकर्षं दातुं सिद्धता
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ:।
हमीरपुरम्। प्रश्नपत्ररहस्योद्घाटनप्रकरणस्य कारणेन द्विवर्षाभ्यन्तरे नियुक्तेः प्रतीक्षां कुर्वतां प्रदेशस्य अनुद्योगीयुवभ्य: आश्रयपूर्णा सुखदवार्ता अस्ति। विघटितकर्मचारी- चयन-आयोगस्य काले विलंबिताः नियुक्तिप्रक्रियाः शीघ्रं समाप्तुं च पात्राभ्यर्थिनः न्यूनातिन्यूनं द्विवर्षीय- आयुसीमायाम् अपकर्षं दातुं प्रयासः आरभ्यते। एतस्मिन् विषये राज्यचयन-आयोगेन प्रस्तावः प्रदेशसर्वकाराय प्रेषितः।
अतीतेषु दिनेषु मुख्यमंत्रिणा सुखविंदरसिंहसुक्खुना आयोगसम्बद्धाधिकारिभ्य: निर्देशाः प्रदत्ताः। अधुना हिमाचलप्रदेशराज्य-चयन-आयोगः हमीरपुरम् विघटितायोगस्य समये अधिसूचिताः ८० पदकूटसंख्यानां नियुक्तिप्रक्रियायाः शीघ्रं पूर्तिं कर्तुं त्वरिततां कृतवान्। एतेषु ८० पदकूटसंख्यासु प्रदेशस्य विभिन्नविभागेषु कुलं १,४२३ पदानि पूरितानि भविष्यन्ति। तत्र जेबीटी, जेओए-आईटी, अन्यपदानि च सम्मिलितानि।
सर्वाधिकं जेबीटी- इत्यस्य४०० पदानि
सर्वाधिकं ४०० जेबीटी पदानि सन्ति। अनेन पात्रं जेबीटीप्रशिक्षितानां कृते महदाश्रय: भविष्यति। दिसम्बरमासे २०२२ तमे वर्षे पत्रभंगप्रकरणं प्रकाशमागतम्। ततः परं दर्जनशः नियुक्तिप्रक्रियाः परीक्षणक्षेत्रे प्रविष्टाः। एतेषु ८० पदकूटसंख्यानां केवलं आवेदनप्रक्रिया सम्पूर्णा अभवन्। अधुना एतेषां नियुक्तिप्रक्रियां पुनः आरभ्यन्ते।
मन्त्रिमण्डले नियुक्तिषु अन्तिमनिर्णयः भविष्यति
धर्मशालाया: तपोवने विधानसभासत्रारम्भात् पूर्वं मुख्यमन्त्रिणा सुक्खु: महोदयेन आयोगस्य विस्तृतं विवरणं प्रस्तोतव्यं भविष्यति। ततः आयोगेन सम्पूर्णा सिद्धता कृता अस्ति। मुख्यमंत्रिण: निर्देशानुसारं नियुक्तिप्रक्रियासंबंधिनं एषः विषयः मन्त्रिमण्डले प्रस्तुतं भविष्यति।
मन्त्रिमण्डलस्य अनुमोदनानन्तरं एव निश्चितं भविष्यति यत् नियुक्तिप्रक्रियाः नवीनविज्ञापनेन आरभ्यन्ते अथवा पूर्वप्रक्रियायाः प्रवर्तनं क्रियते। मुख्यमन्त्रिण: निर्देशानुसारं आयोगेन प्रस्तावः सिद्धः कृतः प्रदेशसर्वकाराय प्रेषितः। एतेषु नियुक्तिषु अधिकतमायुसीमायां अपकर्षं नवीकरणीय विज्ञापनं च अपि सरकारेण निश्चितं भविष्यति। एतासु ८० पदसंख्यासु १,४२३ पदानि पूरितानि भविष्यन्ति।
– विक्रम महाजनः, सचिवः, हिमाचलप्रदेशराज्यचयनायोगः।