HPSEBL : हिमाचलप्रदेशे अप्रैलमासात् विद्युतः मूल्यवृद्धिम् भवितुमर्हति, ३०० कोटिरूप्यकाणां राजस्वह्रासस्य उल्लेखः
हिमसंस्कृतवार्ता: – डॉ पद्मनाभ: शिमला।
हिमाचलप्रदेशे अप्रैलमासस्य २०२५ तमे संवत्सरात् आरभ्य विद्युतः मूल्यवृद्धिम् भविष्यति। विद्युतमण्डलप्रबन्धनेन ५०-७० नाणकं प्रति मात्रकं वृद्धेः प्रस्तावः राज्यविद्युत्नियामकायोगं प्रति प्रेषितः। तत्र मण्डलेन ३०० कोटिरूप्यकाणां राजस्वह्रासं सूचयित्वा विद्युत्तमूल्यवृद्धिम् आह्वानं कृतम्। आयोगेन सर्वहितधारकाणां परामर्शाणां आपत्तीनां च ग्रहणं जनध्वनिना कर्तव्यम्।
हिमाचलप्रदेशे अस्मिन् संवत्सरे विद्युतदराणां कोऽपि वृद्धिः नाभूत्। यद्यपि सर्वकारतः वार्षिकम् ७५०-१००० कोटिरूप्यकाणां अनुदानं विद्युतमण्डलाय प्रदत्तं तथापि मण्डलस्य व्ययसम्पूर्णं कर्तुं कठिनं जातम्। प्रतिमासं मण्डलाय १८० कोटिरूप्यकाणां वेतनवृत्तयर्थं आवश्यकं भवति।
मण्डलस्य राजस्वह्रासः ३०० कोटिरूप्यकाणां अधिकः जातः। प्रतिमासं १२५ मात्क निःशुल्कविद्युत् प्रदानेन मण्डलस्य आर्थिकसन्तुलनं विकृतं जातम्। एतानि सर्वाणि दृष्ट्वा मण्डलेन नियामकायोगं प्रति प्रस्तावः प्रेषितः। अप्रैलमासस्य २०२५ संवत्सरात् विद्युतदराणां वृद्धिं प्रार्थ्यते। हिमाचलस्य २५ लक्षं वत्स्यसहितानां उपभोक्तारः विद्युत्सेवां प्राप्नुवन्ति।
लोकसभानिर्वाचनं २०२४ तमे वर्षे सति विद्युतः मूल्यवृद्धिम् नाभवत्। अतीते वर्षे राज्यविद्युत् नियामकायोगेन ७५ पैसे-१ रूप्यकं प्रति यूनिटं दराणां वृद्धिः कृता। तासां दराणां व्ययं राज्यसर्वकारा उपदानस्वरूपेण स्वीकृतम्।
विद्युतमण्डलेन ३०० कोटिरूप्यकाणां ह्रासं सूचयित्वा २०२५-२६ संवत्सराय दरवृद्धिः प्रस्ताविता। अतीते संवत्सरे (२०२३-२४)वत्स्य (घरेलू)उपभोक्तारः १२५ यूनिटतः अधिकं उपभुज्य २२ नाणकं प्रति यूनिटं तथा अन्य उपभोक्तारः ४६ नाणकं प्रति मात्रकं दरं वहन्ति। मार्च ३१, २०२५ पर्यन्तं एतद् दरं स्थिरं भविष्यति।