दमिश्कस्य पतनम् – असादकुलस्य सिरियातः निर्गमनस्य तात्पर्याणि
– वेणुगोपालनारायणेन स्वाराज्यमैग् इत्यस्मिन् लिखितस्य लेखस्य ईदराधीराजेन कृतः अनुवादः
बहुपूर्वं स्वलाभाय पाश्चात्योपनिवेशवादिभिः निर्मातानि सीमानः मानचित्राणि च आधुनिकपरिस्थित्यनुसारेण क्रौर्येण परिवर्तमानाः सन्ति।
सिरियायाः ऐतिहासिकी राजधानी दमश्कः सुन्नि-इस्लामवादि-सशस्त्र-दलेन विना युद्धं निगृहीतः।
समाचारे अस्पष्टे, अति अप्रमाणिते सति, याथार्थ्यमस्ति यत् हयअत्-तहरीर्-अल्-शम्-नामितं तुरुष्कमूलं तुरुष्कसमर्थितं पूर्व-अल्कायदासदस्यानां दलम् उत्तरे हलबतः, मध्ये हमसद्वारा दक्षिणे दमश्कं पर्यन्तं, केवलम् एकेन दिवसेन सिरियासेनया अनुमतम्।
दूरत्वं तु त्रिशतं किलोमितम्। रष्याटूडे इत्यस्य अनुसारेण सिरिया-राष्ट्रपतिः बषर-अल्-असादः तु स्वदेशात् पलायितवान्। अनिश्चितता अत्यन्तमेव।
अथ इस्रायलद्वारा हमासदलेन सह लिबनानेन सह च युद्धविरामस्य स्वीकृतेः परं सत्वरम् आरब्धस्य अस्य आश्चर्यजनकस्य उद्गमस्य तात्पर्याणि कानि?
प्रथमं तु असादकुलस्य अर्धशताब्दं यावत् शासनम् अन्ततां गतः। क्रूरः शासनकालः आसीत् यदा आधुनिकयुगस्य घोरतमाः अत्याचाराः कृताः। द्व्यशीत्यधिकोनविंशतिशततमे वर्षे हमा इत्यत्र सञ्जाते महमदीय-भ्रातृत्व-विद्रोहिणां नरसंहारे सहस्रशः हननं, पौराणामुपरि रासायनिकास्त्रप्रयोगः च विशेषतीव्रतायाः प्रतिकौ।
सरलतया उच्येत चेत्, सिरियायाम् असादकुलेन, प्रतिवेशिनि इराके सद्दाम-हुसैनेन आचरिता इयं राजनीतिः विभिन्नजातीनाम् उपरि यथेष्टं स्वलाभाय शासनं कर्तुं राजनैतिक-उपकरणम् आसीत्।
तृतीयमस्ति यत् दमश्क़स्य पतनेन, षियाधारितानाम् अलवीयानाम् अतिमहत्त्वपूर्णस्य प्राबल्यस्य अन्तः। विगतस्य शताब्दस्य प्रारम्भे फ़्रन्सीयाः अस्याः जात्याः समर्थनं सहयोगं लब्धवन्तः ये किञ्चित्कालं यावत् अलवीयराज्यं सिरियासमुद्रतटीयक्षेत्रे ऊनविंशत्युत्तरोनविंशतिशततमे वर्षे निर्मितवन्तः। अलवीयाः परिस्थितीनाम् सदुपयोगं कृत्वा शासनतन्त्रस्य आधिकारिकपदानि गृहीतवन्तः। ततः परं शासनतन्त्रमेव वशीकृतवन्तः।
किन्तु सिरियायाः जनसङ्ख्यायाः पञ्चसप्तति-प्रतिशतं सुन्निजनाः। अन्यच्च, महमदीयानां बहवः सम्प्रदायाः अलवीयान् महमदीयान् न मन्यन्ते यतोहि अलवीयाः स्वपूजार्चनेषु मद्यस्य प्रयोगम् (इस्लामे वर्जितम्) कुर्वन्ति, प्रतिदिनम् आरधनां न कुर्वन्ति अपिच कुरानम् अतिरिच्य इतराणि शास्त्राणि मन्यन्ते, केषाञ्चन क्रैस्तवसाधूनाम् अपि वन्दन्ते।
परिणामतः ते लक्षीकृताः स्युः विशेषतः बहुकालं दमश्के निवसितवन्तः यतोहि दमश्के तेषां सङ्ख्या समुद्रतटीयक्षेत्राणाम् अपेक्षया न्यूना अस्ति। परिस्थितीः इतोऽपि विषमाः भवेयुः चेत् इमे अलवीयाः विदेशं शरणं गच्छेयुः यथा पूर्वं कुर्दीयाः सुन्नयः च।
चतुर्थमस्ति यत्, जय-मेननस्य अनुसारेण, सिरियासेनायाः युद्धनिर्वहणे वैफल्येन सिरियायाम् इरानसमर्थितस्य हिज़्बुल्लाहस्य प्राथमिकता वर्धिता। पूर्वं गृहयुद्धे हिज़्बुल्लाहः एव असादसमर्थने प्रमुखं सैन्यदलम् आसीत्। किन्तु अद्य तु हिज़्बुल्लाहः इस्रायलेन अक्षमः कृतः।
एवं सति इरानस्य प्रभावः न्यूनीभूतः। अस्मिन् स्थाने तुरुष्कदेशः हयअत्-तहरीर्-अल्-शम्-नामितं सुन्निदलं निर्मीय सिरियायाम् अग्रेसरति। इस्रायलेन आहते सत्यपि, इरानदेशः तु प्रतिक्रियां करिष्यति। किन्तु प्रतिक्रिया कथं भवेत् इति प्रश्नस्य उत्तरं दातुं कष्टतरम्।
उपप्रमेयस्य अनुसारेण तुरुष्कदेशः कथं हयअत्-तहरीर्-अल्-शम्-दलस्य नियन्त्रणं कथं नैरन्तर्येण करिष्यति इत्यपि अवगन्तुं कष्टम् यतोहि नियन्त्रणस्य आधारसूत्राणि दुर्बलानि। दलस्य सिरियायां वर्धनेन तुरुष्कस्य वशं न्यूनीभविष्यति।
अपिच तुरुष्काः तुरुष्काः एव अरबीयाः तु अरबीयाः। उभे जाती भिन्ना एव। तयोः भिन्नता न्यूना नैव।
अपिच अलवीयशासानात् विमुक्ताः सिरियास्थानीयाः कुर्दीयाः तुरुष्कदेशे निवासिभिः कुर्दीयैः सह मिलित्वा सहकार्यं कुर्युः यत् तुरुष्कदेशेन न अनुमतं स्यात्। ईदृशाः क्लेशाः भविष्यत्काले आगच्छेयुः।
पञ्चममस्ति यत् सिरियायाः अतिमहत्त्वपूर्णः षष्ठदशकात् मित्रदेशः रष्या अस्ति। रष्यासमर्थनेन हि असादकुलः इयत्कालं शासनारूढः। सिरियासमुद्रतटीयः तार्तुस-नामितः नौकाश्रयः सप्तमदशकात् रष्यानौसेनाश्रयः अस्ति। किन्तु वार्तावृत्तान्तानामनुसारेण तार्तुसतः रष्यानावः निर्गताः।
केचन वदन्ति यत् निर्गमनमिदम् अमेरिकया सह चर्चायाः अनुसारेण सञ्जातम्। यदि रष्या सिरियां त्यजति तर्हि युक्रेणीये दोन्बासे शासनं कर्तुं शक्नोति।
षष्ठः विषयः अस्ति असंस्कृततैलम्। अस्य शताब्दस्य आरम्भे सिरियायां पूर्वभागे इराकसीम्नः समीपे दियेरसज़ोरं परितः नूतनाः आविष्काराः तैलोत्पत्तिम् अर्धायुतमितेन पात्रैः वर्धयन्ति स्म। सिरियायाः निर्यातस्य पञ्चदश-प्रतिशतमितं तैलं, षष्ठि-प्रतिशतमितः आयः। किन्तु निरन्तरविद्रोहैः गृहयुद्धेन च इतोऽपि उदागारिकस्रोतानाम् अन्वेषणं सथिगतं जातम्। अन्विष्टानां तैलस्रोतानां विकासः अपि स्थगितः। अतएव तैलोत्पत्तिः पतिता।
तस्मात् यः कोऽपिः दमश्के शासनं ग्रहीष्यति सः सिरियातैलोद्योगं पुनरारब्धुम् इष्यति। न इष्यति चेत् अपि पाश्चात्यतैलसंस्थाः प्रोत्साहयिष्यन्ति यथा इराकीये कुर्दीयप्रदेशे बगदादात् स्वतन्त्राः सन्ति।
अन्ततः सप्तमः विषयः अस्ति सिरियायाम् इस्लामीयतन्त्रम् अवर्जनीयं यतोहि असादः मुल्लाहान् पृष्ठभूमौ हि स्थापितवन्तः पुरा। अधुना ते अवसरं गृहीतुम् इच्छन्ति। हयअत्-तहरीर्-अल्-शम्-दलं तु अल्-कायदायां वा इस्लामीय-राष्ट्रे आधारितमेव। दमश्के बहु शताब्दानाम् अनन्तरम् अमीरस्य शासनं भवेत्।
समापने उच्यतां यत् उपनिवेशवाद-युगस्य अन्तस्य आरम्भः एवं दृश्यते। स्वलाभाय पाश्चात्योपनिवेशवादिभिः निर्मातानि सीमानः मानचित्राणि च आधुनिकपरिस्थित्यनुसारेण क्रौर्येण परिवर्तमानाः सन्ति। अपिच आयाताः कृत्रिमाः धर्मनिरपेक्षसिद्धान्ताः त्यक्ता भविष्यति येषां स्थाने स्थानीयाः सिद्धान्ताः आगच्छेयुः।