निष्फला पश्चाद् आलिया भट्ट: इत्यस्या: चलच्चित्रं ‘जिगरा’ अस्मिन् दिने ओटीटी इत्यत्र प्रदर्शितं भविष्यति
वार्ताहर: – जगदीशडाभी (मुम्बई)
बॉलीवुड-नायिकाया: आलिया भट्ट: इत्यस्याः चलच्चित्रं जिगरा इत्यस्य प्रतिक्रिया अतीव दुर्बलः अभवत् । चलचित्रं दुःखदरूपेण निष्फलम् अभवत् । ९० कोटिरूप्यकाणाम् आय-व्ययकेन निर्मितम् एतत् चलच्चित्रं बक्स् आफिस-मध्ये ५० कोटिरूप्यकाणि अपि अर्जयितुं न शक्तवान् । जिगरा इत्यस्य कुलसङ्ग्रहः ३१.९८ कोटिरूप्यकाणां बक्स् आफिस इत्यत्र अभवत् । चलच्चित्रं प्रेक्षागृहे निष्फलं जातम् अत: आलिया भट्ट: इत्यस्या: जिगरा चलच्चित्रम् इदानीम् ओटीटी इत्यत्र प्रदर्शितं भविष्यति। वार्तानुसारं आलियाया: जिगरा इति चलच्चित्रं नेटफ्लिक्स् इत्यनेन ७० कोटिरूप्यकेन क्रीतम् आसीत्, अधुना नेटफ्लिक्स् इत्यनेन एतत् चलच्चित्रं प्रदर्शितं भविष्यति। इदं चलच्चित्रं जिगरा प्रेक्षागृहेषु अक्टूबरमासस्य ११-दिनाङ्के प्रदर्शितं भवति स्म, अधुना दिसम्बरमासस्य ६-दिनाङ्के नेटफ्लिक्स् इत्यत्र प्रदर्शितं भविष्यति ।