करीनाया:, करिश्माया: च भ्रातुः आदर्शजैनस्य विवाहः भविष्यति
वार्ताहर: – जगदीशडाभी (मुम्बई)
एकप्राप्तवार्तानुसारं करीना कपूरस्य करिश्मा कपूरस्य च भ्रातुः आदर्शजैनस्य विवाहः भविष्यति। आदरः स्वस्य दीर्घकालीनमित्रम् अलेखा आडवाणी इत्यनेन सह विवाहं कुर्वन् अस्ति । अद्यैव आदर-अलेखायोः रोका-समारोहस्य आयोजनं कृतम् । अस्मिन् रोका-समारोहे सम्पूर्णं कपूर-परिवारं दृष्टम् । कपूरपरिवारः अलेखायाः सर्वात्मना स्वागतं कृतवान् । अस्मिन् रोका-समारोहे करीना कपूरः स्वभ्रातुः आदरस्य, भावी भ्रातुजायाया: अलेखा आडवाणीयाः च पूजां कृतवती । अस्य चित्राणि सम्प्रति सामाजिकमाध्यमेषु वायरल् भवन्ति। स एव करिश्मा वधूस्य ललाटे तिलकं स्थापयति स्म। आदरस्य भ्राता रणबीरकपूरः अपि वधूयाः ललाटे तिलकं स्थापयति स्म । अस्मिन् रोका-समारोहे सैफ-अली खानः अपि दृष्टः । सैफः परिवारेण सह विनोदं कुर्वन् दृष्टः आसीत् ।
करीनाया:, करिश्माया: च भ्रातुः आदर्शजैनस्य भविष्यति विवाहः
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Leave a comment