Mukesh Agnihotri : हिमाचलप्रदेशस्य उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान्– जलवितरणे अवशिष्टराशेः संकलनं न भविष्यति।
हिमसंस्कृतवार्ता:- सुंदरनगरम्।
हिमाचलप्रदेशस्य उपमुख्यमन्त्री मुकेश अग्निहोत्री उक्तवान् यत् जलवितरणस्य विषये विपक्षदलं दुष्प्रचारं करोति। ग्रामीणक्षेत्रे जलवितरणाय प्रतिमासं 100 रूप्यकाणां निश्चितराशिः निर्धारिताः। सः विभागं निर्दिष्टवान् यत् ग्रामीणउपभोक्तेभ्यः पूर्वं स्थित- अवशिष्टराशेः संकलनं न क्रियेत्। सः उक्तवान् यत् जलवितरणस्य देयकपत्रेषु राज्यस्य सर्वकारेण प्रदत्तम् उपदानं स्पष्टतया उल्लिख्यते इति सुनिश्चितं कार्यं भवेत्। वर्तमानराज्यसर्वकारा दिल्लीस्थं हिमाचलभवनं, राज्यसंपदां च संरक्षितुं दृढ़संकल्पिता अस्ति। सः अपि उक्तवान् यत् हिमाचलपथपरिवहननिगमस्य कर्मचारिणः पेंशनं वेतनं च समयेन प्रदत्तम्। विपक्षदलं कर्मचारिणः भर्त्सयितुं प्रेरयितुं वा विरमेत्। निगमस्य कर्मचारिणां चिकित्साप्रतिपूर्तये प्रायशः नवकोटिरूप्यकाणां देयकानि स्वीकृतानि। चालक- परिचालकानाम् अधिककालपरिश्रमवेतनाय आगामिमार्चमासे यावत् प्रायः शतकोटिरूप्यकाणां व्ययः भविष्यति। हिमाचलपरिवहननिगमः प्रतिदिनं प्रायः पञ्चलक्षं जनानां दुर्गमक्षेत्रेषु परिवहनं कुर्वन् अस्ति। परिवहननिगमस्य आधुनिकीकरणे विशेषध्यानं यथासम्भवं दत्तम्। सुन्दरनगरस्य तरोटक्षेत्रे आयोजिते राज्यस्तरीय- सहकारितासमारोहे भाषमाणः सः उक्तवान् यत् भारतीयजनतापक्षेण सदा हिमाचलस्य हितेषु उपहासः कृतः। जनै: तेषां नेतृत्वं नाङ्गीकृतम्, इत्यतः ते अहर्निशम् एकीकृत्य राज्यस्य नामख्यातिं हन्तुं प्रयासं कुर्वन्ति।