किरेनरिजिजु:-संसद: शैत्यकालीनं सत्रं दिसम्बरमासस्य विंशतिः दिनांकं यावत् चलिष्यति
हिमसंस्कृतवार्ता:- संसदीय- कार्यमन्त्रिणा किरेन रिजिजु इत्यनेन उक्तं यत् संसदः शिशिरसत्रे कस्यापि विषये चर्चा कर्तुं सर्वकारः सज्जः अस्ति। नव देहल्यां सर्वदलीयोपवेशनानन्तरं पत्रकारैः सह वदन् रिजिजुमहोदयः विपक्षदलेभ्यः आग्रहम् अकरोत् यत् ते सत्रस्य समये लोकसभायाः राज्यसभायाः च सुचारूरूपेण कार्य सुनिश्चितं कुर्वन्तु इति। सर्वदलीयसभायाः अध्यक्षत्वं रक्षामन्त्री राजनाथसिंह विहितवान्। अस्मिन् उपवेशने अनुप्रिया पटेलः, एल. मुरूगन, सस्मित पात्रा, रामगोपालयादवः, प्रमोदतिवारी, जयरामरमेशः च उपस्थिताः आसन्। सत्रमिदं अद्य आरभ्य दिसम्बरमासस्य विंशतिः दिनांकं यावत् प्रचलिष्यति।
किरेनरिजिजु:-संसद: शैत्यकालीनं सत्रं दिसम्बरमासस्य विंशतिः दिनांकं यावत् चलिष्यति
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment