KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयाय राज्यस्तरीय- अन्तर्विश्वविद्यालयीय- इन्द्रधनुषयुवामहोत्सवे पोस्टरनिर्माणप्रतियोगितायां द्वितीयपुरस्कार:
हिमसंस्कृतवार्ता:- रामटेक:।
कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयः, ‘इन्द्रधनुष्य- २०२४’ महाराष्ट्रराज्य- अन्तर्विश्वविद्यालयीय- युवामहोत्सवप्रतियोगितायां छात्रकल्याणनिदेशकस्य डॉ. जयवन्तचौधरी इत्यस्य यशस्वी नेतृत्वे विश्वविद्यालयसङ्घः सर्वासु स्पर्धासु उत्साहेन विलक्षणतया च भागं गृहीतवान्। अस्मिन् राज्यस्तरीययुवामहोत्सवे इन्द्रधनुष २०२४ सांस्कृतिकप्रतियोगितायां कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य संघेन रामटेकेन पोस्टरनिर्माणकलायां द्वितीयस्थानं प्राप्तम्। विश्वविद्यालयेन सम्बद्धा नटराजकला- सांस्कृतिककेन्द्रस्य छात्रा अनुराधा मातांकर स्वप्रशिक्षकस्य रविन्द्रहरदासस्य मार्गदर्शने इयमुपलब्धि: प्राप्ता।
इन्द्रधनुष- २०२४ इत्यस्मिन् महाराष्ट्रस्य कुलम् २४ विश्वविद्यालयाः भागं गृहीतवन्तः। डॉ. पंजाबराव देशमुख कृषिविश्वविद्यालय:, अकोला द्वारा आयोजितायां प्रतियोगितायां प्रायश: १००० छात्रै: भागं स्वीकृतम्। कविकुलगुरु- कालिदास- विश्वविद्यालयसंघस्य कुलपतिना प्रो हरेरामत्रिपाठी, प्रतिकुलपतिना डॉ. देवानन्दशुक्ल इत्येताभ्याम् चाभिनन्दनं कृतम्।