दादरा-नगर-हवेली-दमन-दीव-केन्द्रशासितप्रदेशयोः यात्रायामस्ति राष्ट्रपतिः
राष्ट्रपति द्रौपदी मुर्मू त्रिदिवसीययात्रायाः कृते दादरा-नगर-हवेली-दमन-दीव-केन्द्रशासितप्रदेशयोः यात्रायामस्ति। राष्ट्रपतिना जम्पोर स्थिते एवियरी, दमनस्थिते सर्वकारीय अभियान्त्रिकीमहाविद्यालयस्य निफ्टपरिसरस्य निरीक्षणं कृतवती।
राष्ट्रपतिः अद्य सिल्वास्सानगरस्य नामोचिकित्साशिक्षासंशोधनसंस्थायाः भ्रमणं करिष्यति, संस्थायाः छात्रैः सह च संवादं करिष्यति। पश्चात् राष्ट्रपतिः जन्दाचौकविद्यालयस्य उद्घाटनं, सिलवासानगरे सार्वजनिकसमारोहं च सम्बोधयिष्यति । राष्ट्रपति मुर्मू दीवनगरस्य आईएऩएस खुखरी स्मारके अपि भ्रमणं करिष्यति।
दादरा-नगर-हवेली-दमन-दीव-केन्द्रशासितप्रदेशयोः यात्रायामस्ति राष्ट्रपतिः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment