Environment: धान्यापशिष्ट-दाहे पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन दण्डराशिः द्विगुणीकृतः
पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन धान्यापशिष्ट-दाहे दण्डराशिः द्विगुणीकृतः । प्रशासनेन ह्यः राष्ट्रिय-राजधानिक्षेत्रे तत्समीपवर्ति-क्षेत्रेषु च वायु-गुणवत्ता प्रबन्धन आयेगस्य संशोधित-नवीन-नियमाः अधिसूचिताः सन्ति। नवीन-नियमानुसारेण द्वि एकड़-परिमितात् अल्प क्षेत्रस्य भूस्वामि-कृषकाः धान्यापशिष्टस्य दाहप्रकरणे पञ्चसहस्ररूप्यकाणां दण्डशुल्कः दास्यन्ति यत् पूर्वं सार्धद्विसहस्ररूप्यकम् आसीत्। एतदधिकं पञ्चएकड़-परिमितस्य क्षेत्रस्य भूस्वामिनः कृषकाः पर्यावरणस्य क्षतिपूर्तये दशसहस्ररूप्यकाणि दास्यन्ति। तत्रैव पञ्चएकड़ परिमितादप्यधिक-क्षेत्रस्यस्वामिनः कृषकाः त्रिंशत्-सहस्र-रूप्यकाणां क्षतिपूर्ति-शुल्कः प्रदास्यन्ति।
Environment: धान्यापशिष्ट-दाहे पर्यावरण-वन-जलवायु परिवर्तन-मन्त्रालयेन दण्डराशिः द्विगुणीकृतः
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment